पृष्ठम्:अलङ्कारमणिहारः.pdf/३८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
383
व्यतिरेकसरः (२२)

 हे वेंकटनाथ ! त्वं तटित्वानिव न खलु । कुत इत्यत आह- यदिति । यस्मात् साधुषु सत्सु घनस्सान्द्रः यो रसः अनुरागः तस्य त्यागः स न विहितो येन स तथोक्तः । यद्वा - साधुः श्लाघ्यः घनस्संपूर्णः यो रसः आनन्दः तस्य त्यागो न विहितो येन निरतिशयानन्द इत्यर्थः । पक्षे अविहितनिर्मलसलिलत्याग इत्यर्थः । संकलिता तपसः तपस्य ग्रीष्मस्य च स्फूर्तिर्येन स तथोक्तः । विमलानां अकलुषाणां विशदानां च । हंसानां ज्ञानिनां मराळानां च । गतिः गम्यत इति गतिः कर्मणि क्तिन् । प्राप्य इत्यर्थः । अत्रोपमानापकर्षकानुपादानं, श्रौती चोपमा श्लेषश्च ॥

 आदावेव कुवर्णं प्राप्तं मध्येऽवमानितमथान्ते । लयमुपयातं कुवलयमवयन्ति कथं तवाम्व नयनमिव ॥ ६६१ ॥

 कुवलयं आदावेव प्रथममेव कुवर्णं कुत्सितं वर्णं कु इत्याकारकमक्षरं च प्राप्तं, कर्तरि क्तः । मध्ये मध्यकाले अवमानितं अवज्ञातं त्वन्नयननेनेति भावः । पक्षे–मध्ये स्ववाचकशब्दमध्ये वमानितं वकारेण युक्तमिति यावत् । अत एव अन्ते पर्यवसाने लयं क्वापि लीनतां उपयातं, कर्तरि क्तः । पक्षे -लयेति वर्णद्वयमुपगतमित्यर्थः । अत्रोपमेयोत्कर्षकानुपादानं, उपमा श्रौती श्लेषश्च ॥

 आर्थे साम्ये यथा--

 वहदपि सुवर्णमन्तर्मुखे कुवर्णं सदा दधत्कुसुमम् । श्रीस्सुमुखि हरिण्यास्तव पश्चात्सममस्तु न तु पुरो वपुषः ॥ ६६२ ॥