पृष्ठम्:अलङ्कारमणिहारः.pdf/३५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
351
निदर्शनसरः (२१)

 इदं चापरं बोध्यं—

 वातात्मंभरिगिरिवरनेता चेतो ममैष यदयासीत् । वेलातीतं दुरितं शूलाकार्षीत्तदेतदिति मन्ये ॥

 शूलाकार्षीत् शूलेनापाक्षीदित्यर्थः । ‘शूलात्पाके’ इति शूलशब्दाड्डाच् । अत्र ‘भावप्रधानमाख्यातम्’ इति यास्कोक्तरीत्या क्रियाविशेष्यकवोधवादिनां मते शाब्द एवाभेदारोपः क्रिययोरिति मुखं चन्द्र इत्यादाविव रूपकमुचितम् । प्रथमान्तविशेष्यकबोधवादिनां त्वार्थस्स इति निदर्शनेति भेदः ॥

 पदार्थनिदर्शना यथा—

 दिनविगमसमयविकसन्नवकुवलयवलयविलसदसितरुचिम् । जयतु चिराय दधानो दयितः कलशाम्बुराशिकन्यायाः ॥ ६१४ ॥

 अत्र कुवलयदळभगवद्रुच्योराश्रयभेदाद्भिन्नयोरपि सादृश्यमूलस्ताद्रूप्याभिमानः आरोपो वा भगवति कुवलयरुचेः ॥

 यथावा--

 भवदवपरितप्तोऽयं भवदीयकृपासुधाप्लुतोऽद्य हरे । तुङ्गातपसङ्गार्दितगङ्गाह्रदमग्नगजसुखं धत्ते ॥

 अत्र ‘एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव हृदम्' इति प्रमाणच्छायाऽनुसंहिता । अत्र तुङ्गातपसङ्गार्दितत्वगङ्गाह्रदनिमग्नत्वाभ्यां भवदवपरितप्तत्वभगवत्कृपासुधाप्लुतत्वयोः प्रतिबिम्बनमिति पूर्वस्मादुदाहरणाद्भेदः रूपकसंकीर्णत्वं च । आश्रयभेदभिदुरयोस्सुखयोस्सादृश्यहेतुकस्ताद्रूप्याभिमानस्तु तुल्य एव॥