पृष्ठम्:अलङ्कारमणिहारः.pdf/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
352
अलंकारमणिहारे

 यथावा—

 चलदलकाननचन्दिरविलोलमखिलाम्ब नयनयुगलं ते । विस्तृतजालजलाशयविचलन्मीनद्वयश्रियं वहते ॥ ६१६ ॥

 अत्रापि चलदलकत्वविस्तृतजालत्वयोः आननचन्दिरजलाशययोश्च बिम्बप्रतिबिम्बभावः विलोलनयनयुगलचलन्मीनद्वययोस्तु वस्तुप्रतिवस्तुभावकरम्भितस्स इति विशेषः । अन्यत्तुल्यम् ॥

 अस्यां चोपमानोपमेयगतधर्मयोरार्थाभेदप्रतिपत्तिः । अतः पदार्थनिदर्शनेत्युच्यते । अत्र च पदार्थनिदर्शनायां बिम्बप्रतिबिम्बभावस्तूपमानोपमेययोस्सविशेषणत्वे भवति, यथा अव्यवहितोदाहरणयोः । अन्यथा तु नेति विवेकः । ननु वाक्यार्थनिदर्शनायां विशिष्टवाचकशब्दाभ्यां विशेषणयोरप्युपादानादस्तुनामोपात्तयोरार्थाभेदः। पदार्थनिदर्शनायां तूपमानभूतरुच्यादेरन्यतरस्यैवोपात्तत्व न द्वयोरिति चेत्, रुचिशब्देन रुचित्वेन द्वयोरप्युपात्तत्वात् । न ह्युपमानोपमेयतावच्छेदकरूपेणोपात्तत्वं विवक्षितं, येनाव्याप्तिस्स्यात् । यद्वा प्रागुक्तलक्षणं वाक्यार्थनिदर्शनाया एव, न पदार्थनिदर्शनायाः । अस्यास्त्वेवमस्तु लक्षणं—

पदार्थपूर्वा साऽन्या स्यादुपमानोपमेययोः ।
यत्रान्यतरधर्मस्यान्यत्रारोपणमुच्यते ॥

 उपमानोपमेययोरन्यतरधर्मस्यान्यत्रारोपः पदार्थनिदर्शनेत्यर्थः । नन्वेवमपि वाक्यार्थनिदर्शनायां रूपकध्वनिना पदार्थनिदर्शनायां च निगीर्याध्यवसानरूपयाऽतिशयोक्त्या गतार्थतेति