पृष्ठम्:अलङ्कारमणिहारः.pdf/३५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
350
अलंकारमणिहारे

चतुर्षु वस्तुमात्रयोरौपम्यमूलोऽभेदः। अन्तिमे “फणिगिरि’ इति । पद्ये त्वौप्ययोरौपम्यमूलस्स इति विशेषः ॥

 यथावा--

 कलशेन जलधिसलिलं सकलं शक्नोति यो हि परिमातुम् । अखिलं भवतो विभवं मनसा स भवेत्क्षमः परिच्छेत्तुम् ॥ ६१० ॥

 अत्रोपमानोपमेयवाक्यार्थयोः प्रातिलोम्येनाभेदः मित्थ्याध्यवसितिसंकीर्णत्वं च पूर्वोदाहरणेभ्यो विशेषः ॥

 यथावा--

 वृषगिरिमलंकरिष्णोर्विष्णोर्वीर्याणि स हि वदितुमीष्टे । प्रभविष्णुः परिमातुं रजांसि यः पार्थिवानि निखिलानि ॥ ६११ ॥

 अत्र 'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांग्सि' इति श्रुत्यर्थानुधावनं विशेषः । अन्यत्सर्वं पूर्ववदेव । श्रुतावपीदृशालङ्कारसद्भावं ज्ञापयितुमिदम् । एवं ‘तव महिमानं’ इति प्रागुदाहृतपद्येऽपि बोध्यम् । एषा वाक्यार्थनिदर्शनेत्युच्यते । विशिष्टार्थयोः प्रकृतैकधर्मिगतयोरार्थाभेदे निदर्शनाया इष्टेः | अस्यां च घटकपदार्थानां बिम्बप्रतिबिम्बभावोsवश्यंभावी ॥

 मालारूपाऽपीयं दृश्यते । यथा--

 विकिरति स सुधां परितः क्षिपति शरच्चन्द्रचन्द्रिकाधाराम् । वितरति चन्दनचर्चां सुचारु यो हरिकथां प्रचारयति ॥ ६१२ ॥