पृष्ठम्:अलङ्कारमणिहारः.pdf/३२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
322
अलंकारमणिहारे

 हे भुवनेश्वरि ! भुवनेश्वरस्य भगवतस्स्त्री । तस्यास्संबुद्धिः। यद्वा- भुवनानामीश्वरीत्येव विग्रहः ‘अश्नोतेराशुकर्मणि वरट्च’ इत्यश्नोतेर्वरटि टित्त्वलक्षणो ङीप् । लोकानामाशुवरदात्रीत्यर्थः। 'आशुकर्मवरदानादि’ इति हि व्याख्यातम् । प्रपञ्चितं चैतल्लक्ष्मीसहस्ररत्नप्रकाशिकायां प्रादुर्भावस्तबके ‘अखिलेश्वरींत्याम्’ इत्येतद्विवरणावसरे । त्वयि प्रपन्नो यः विप्रतिपन्नश्च यः तयोरुभयोरप्यविकृतमेव विश्वभोग्यमैश्वर्यं विधत्से । हन्त । एकत्र अविकृतं अविकार्येव विश्वेषां भोग्यं भोगार्हं सकलजगदुपकारकमित्यर्थः। ऐश्वर्यं विधत्से । अपरत्र-अविद्यमानः विः विवर्णो यस्य तत् अवि, तथाविधं कृतं विश्वभोग्यं श्वभोग्यमित्यर्थः । अतितुच्छमिति भावः । शब्दार्थयोस्तादात्म्यम् । ऐश्वर्यं विधत्से ॥

 यथावा--

 देवानां दैत्यानामपि तव चरणद्वयं प्रभासनदम् । तेषामुभयेषामपि सामान्यं तद्धि दैवतं भगवन् ॥ ५५१ ॥

 हे भगवन् ! तव चरणद्वयं देवानां दैत्यानामपि प्रभासनदम् । कथमिदं हिताहितयोस्तुल्यफलप्रदानमुचितमित्याशङ्क्य समाधत्ते -तेषामिति । तेषामुभयेषामपि तत् तव चरणद्वयं सामान्यं दैवतं हि । उभयसाधारणदैवतत्वादुभयेषां तुल्यफलप्रदानं युक्तमेवेति भावः । हीत्येतत् ‘देवानां दानवानां च सामान्यमधिदैवतम् । सर्वदा चरणद्वन्द्वम्’ इति प्रमाणप्रसिद्धिं द्योतयति । प्रभासनं प्रकाशं ददातीति तथोक्तं देवपक्षे । अन्यत्र प्रभायाः असनं निरासं ददातीति तथोक्तम् । एषूदाहरणेष्वाद्यं