पृष्ठम्:अलङ्कारमणिहारः.pdf/३२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
321
तुल्ययोगितासरः (१६)

संश्लेषणे भ्राष्ट्रमिति निष्पत्तेः । अत एव कुलालं कुम्भकारं अत एव कृत्यानां सत्कर्मणां कृत्येषु वा अयोग्यं अनर्हं

रजकश्चर्मकारश्च नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश्च स्वर्णकारस्तु सौचिकः ॥
तक्षकस्तिलयन्त्री च सूनश्चक्री तथा ध्वजी ।
नापितः कारुकश्चैव षोडशैते जनङ्गमाः ॥

इति पराशरोक्तेस्तस्य ग्रामचण्डालेष्वन्तर्भावादिति भावः ॥

 यथावा--

 पौरहिततां प्रपन्नं पुलोमजातेश्वरत्वमधिधरणि। प्राप्तं कलयत्यच्युत मित्रममित्रं च हन्ततव शक्तिः ॥

हे अच्युत ! तव शक्तिः पराक्रमः मित्रं सखायं युधिष्ठिरादिकं, पौरेभ्यो नागरेभ्यः हिततां अनुकूलतां प्रपन्नं प्राप्तं 'चतुर्थी तदर्थ’ इत्यादिना समासः । अधिधरणि धरणौ पुलोमजातेश्वरत्वं शचीपतित्वं भूमीन्द्रत्वं सार्वभौमत्वमिति यावत् । प्राप्तं कलयति । अमित्रं चैवमेव कलयति । हन्तेत्याश्चर्ये । वस्तुतस्त्वमित्रपक्षे –पौ पुवर्णे रहिततां विश्लिष्टतां प्रपन्नं पुलोमजातेश्वरत्वं लोमजातेश्वरत्वमित्यर्थः । तत्र पुवर्णोत्सारणे तथानिष्पत्तेः। मेषादिलोमक्रयविक्रयिकमत्यर्थनिहीनमिति भावः ।

 यथावा--

 हन्त त्वयि प्रपन्नो विप्रतिपन्नश्च यस्तयोर्जननि । अविकृतमेव विधत्से भुवनेश्वरि विश्वभोग्यमैश्वर्यम् ॥ ५५० ॥

 ALANKARA
41