पृष्ठम्:अलङ्कारमणिहारः.pdf/३२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
323
तुल्ययोगितासरः (१६)

शुद्धम् । अन्यानि श्लेषसंकीर्णानि यथायथमलंकारान्तरसंकीर्णानि च ॥

भगवद्वर्णनौत्सुक्यपारवश्येन दर्शितम् ।
बहूदाहरणं तत्र न कार्या दोषधीर्बुधैः ॥

 इयं सरस्वतीकण्ठाभरणोक्ता तुल्ययोगिता । अत्र केचित्- "नेयं तुल्ययोगिता पूर्वोक्ततुल्ययोगितातो भेदमर्हति, ‘वर्ण्यानामितरेषां वा' इति लक्षणाक्रान्तत्वात् । ‘प्रदीयते परा भूतिः' इत्यत्र एकानुपूर्वीबोधितवस्तुकर्मकदानपात्रत्वस्य परंपरया तादृशशब्दस्य वा धर्मस्यैक्यात् । ‘यश्च निम्बम्' इत्यत्रापि कटुत्वविशिष्टनिम्बस्यैव परंपरया छेदकसेचकपूजकधर्मत्वसंभवात् " इत्यहुः । अन्ये तु –‘तदेतदपेशलं, तथाहि यत्रानेका न्वयित्वेन ज्ञातो धर्मस्तेषामौपम्यगमकत्वेन चमत्कृतिजनकस्तत्र पूर्वोक्तः प्रकारः । यत्र तु हिताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहर्तृगतस्तुतिनिन्दान्यतरद्योतकतया चमत्कृतिजनकत्वं तत्रापर इति भेदात् । न ह्यत्र पराभूतिशब्दस्य तदर्थकर्मदानस्य वा परंपरया शत्रुमित्रगतत्वेन भानं, अपितु श्लेषबलादेकत्वेनाध्यवसितस्य तादृशदानस्य राजगतत्वेनैवेति कथं पूर्वोक्तलक्षणाक्रान्तत्वम् । एतेन ‘यश्च निम्बम्' इत्यत्र कटुत्वविशिष्टस्य निम्बस्यैव परंपरया छेदकसेचकपूजकधर्मत्वमिति निरस्तम् । वस्तुगत्या तद्धर्मस्यालंकारतासंपादकत्वाभावात् । अन्यथा 'संकुचन्ति सरोजानि’ इत्येतावतैव तुल्ययोगितापत्तेः । किंत्वनेकगतत्वेन ज्ञायमानधर्मत्वस्यैव तुल्ययोगिताप्रयोजकत्वमिति तदभावे तदन्तर्गतिकथनमसमञ्जसमेव” इत्याहुः ॥

 तृतीयतुल्ययोगिता--