पृष्ठम्:अलङ्कारमणिहारः.pdf/३१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
307
तुल्ययोगितासरः (१६)

ब्दिकैस्तदनुयायिभिरालंकारिकैश्च गुणत्वाभ्युपगमादित्याहुः । अत एव जातिगुणयोर्विरोधे प्रकाशकृता 'गिरयोप्यनुन्नतियुजः' इति, विद्यानाथेनापि ‘अमदस्सार्वभौमोपि’ इति चोदाहृतं संगच्छते । अनुन्नतीयादेरभावस्यागुणत्वे तदुदाहरणासंगतिः स्पष्टैव । तस्मादभावस्यापि गुणत्वाद्धर्मस्य गुणक्रियारूपतोक्तावप्यदोष एव । एवंच - अस्मिन्नुदाहरणेऽपि नाप्रसन्नमित्यादौ गुणरूप एव धर्म इति ध्येयम् । वस्तुतस्तु लक्षणे तेन रूपेण धर्मो निवेशितोऽस्माभिरिति न कोपि दोषः ॥

 अधिफणिगिरिमणिनीरदमचञ्चलासीद्रमा च विभुता च। क्षमयाविपुलासीत्तन्मानसवृत्तिश्च तस्य करुणा च ॥ ५२६ ॥

 फणिगिरिमणिर्भगवान् नीरद इव तस्मिन् अधिफणिगिरिमणिनीरदं, विभक्त्यर्थेऽव्ययीभावः । रमा अचञ्चलासीत् चञ्चलेवाचारीत्, विद्युदिवाभादित्यर्थः । चञ्चलाशब्दादाचारक्विपि लिङ् , अडागमः । विभुता ऐश्वर्यं च अचञ्चला निश्चला आसीत् अभवत् ।‘अस भुवि' इत्यस्माल्लङ् । ‘ 'अस्तिसिचोऽपृक्ते ’ इतीट्, ‘श्नसोः' इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । तस्य भगवतो मानसवृत्तिः क्षमया क्षान्त्या अविपुलासीत् विपुलेवाचारीत् भूतुल्याऽऽसीदित्यर्थः । विपुलाशब्दादाचारक्विपि लुङ् पूर्ववत् । पक्षे -विपुलेति छेदः । तस्य करुणा च विपुला महती आसीत् । श्रीश्रीनिवासस्यैश्वर्यक्षमाकृपाः श्रीलक्ष्मीनिवासनिबन्धना इति भावः । अत्रोभयसाधारणयोर्गुणाक्रिययोरभावाच्छब्दमात्रं श्लेषमूलेनाभेदाध्यवसानेन सपिण्डितोऽर्थो वा धर्मः ॥