पृष्ठम्:अलङ्कारमणिहारः.pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
306
अलंकारमणिहारे

वास्तवार्थः । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । अहिशैलपतेः शङ्खे चक्रेऽपि मह इति योजना । अत्र मह इति गुणरूपैकधर्मान्वयित्वं शङ्खचक्रयोः । यदि च ‘ते पाञ्चजन्यचक्रे दीपयतश्शेषशैलनाथकरौ' इत्युत्तरार्धं पठ्यते तदा क्रियारूपो धर्मः । यदिच–‘ते पाञ्चजन्यचक्रे दीप्तिं धत्तोऽद्भुतां वृषाद्रिपतेः’ इत्युच्यते तदा गुणविशिष्टा क्रिया, केवलगुणेन साक्षात्संबन्धाभावात् । केवलक्रियायाश्चाहृद्यत्वात् । अत्र द्वयोरेव धर्मान्वयः ॥

 वदनं नयनयुगं वा हृदयं वा नाप्रसन्नमम्ब तव । करयुगळमधरबिम्बं चरणयुगं वाऽपि भवति नानरुणम् ॥ ५२५ ॥

 अत्र नाप्रसन्नं नानरुणमित्यभावरूपे धर्मे प्रस्तुतानां वदनादीनां करयुगळादीनां चान्वयः । अत एव लक्षणे सामान्यतो धर्म इत्येव निवेशितं न तु गुणक्रियारूपविशेषिततया । इदं च रसगङ्गाधरकृदनुरोधेन । स हि ‘प्रस्तुतानामप्रस्तुतनां वा गुणक्रियारूपैकधर्मान्वयस्तुल्ययोगिता’ इति सर्वस्व कुवलयानन्दोक्तिं दूषयन् ‘गुणक्रियारूपेत्युक्तिरापाततः--

शासति त्वयि हे राजन्नखण्डावनिमण्डलम् ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥

इत्यत्राभावरूपस्यैव धर्मस्यान्वयात् इत्यभाणीत् । अन्ये तु - 'शासति’ इति पद्ये निश्चिन्ते नेति निश्चिन्तभेदश्शत्रुमित्रमण्डलधर्मतयोपात्तो गुणस्वरूप एव, चिन्ताभाववद्भेदस्य चिन्तानतिरिक्तत्वात् । अन्यथा चिन्ताभावाभावस्याप्यतिरिक्तत्वापत्तेः । अथ तत्रापीष्टापत्तावपि अभावस्य कथंगुणबहिर्भावः जातिक्रियाद्रव्यातिरिक्तस्यैव 'चतुष्टयी शब्दानां प्रवृत्तिः’ इति वदद्भिश्शा-