यथा वा-
दन्ताळी ग्रीवाऽपि च मुक्ताळ्या नासिता तव मुरारे । नाप्रमदं जातुचिदपि वक्षश्चेतश्च वारिजाक्ष तव ॥ ५२७ ॥
हे मुरारे ! तव दन्ताळी मुक्ताळ्या इति छेदः , मुक्ताहारापेक्षया नासिता नशब्देन समासः असिता न भवति किंतु सिता धवळैवेत्यर्थः । ग्रीवाऽपि च मुक्ताळ्येति तृतीयैकवचनं, मुक्ताहारेण असिता असंदानिता न भवति किंतु संदानितैव 'बद्धे संदानितं मूतं मुद्दितं संदितं सितम्' इत्यमरः । हे वारिजाक्ष ! तव वक्षः चेतश्च अप्रमदं अविद्यमानमानिनीकं अविद्यमानलक्ष्मीकमित्यर्थः, अविद्यमानप्रहर्षं च न, किंतु सलक्ष्मीकमेव सहर्षमेवेति भावः । अत्र सितत्वसप्रमदत्वनिषेधसंभावनाऽपि नञ्द्वयेन व्युदस्यते । यथोक्तं वामनेन –'संभाव्यनिषेधानेवर्तने द्वौ प्रतिषेधौ’ इति । अत्रापि पूर्वोदाहरणवदेव धर्मः, तस्याभावरूपत्वं तु विशेषः ॥
क्वचिदध्याहृतोपि धर्मवाचकश्शब्दस्तुल्ययोगितां प्रयोजयति । यथा--
दिव्यतमं रूपं तव भव्यतमा श्रीरियं च वनमाला । स्तव्यतमो मणिरच्युत भाव्यं विशयेन किं तव परत्वे ॥ ५२८ ॥
तव परत्वे विशयेन संशयेन भाव्यं किं संदेहो न भवत्येवेत्यर्थः । अत्र परत्वसंशयक्षेपकरणतया प्रस्तुतानां दिव्यरूपादीनामस्तीति क्रियायामन्वयः । ‘अस्तिर्भवन्तिपरोप्रयुज्य-