रणानां च । कारकाणां सर्वेषां क्रियान्वयित्वस्य तुल्यत्वात् । एवमष्टानां क्रियरूपधर्मैक्येऽपि द्वयोर्दूयोरेवौपम्यं प्रतीयते, न परस्परमष्टानाम् । तदधिकरणत्वतत्कर्तृत्वरूपे विशेषे सामान्यस्य पर्यवसानात् । तत्र स्मरतामित्यत्र ‘अधीगर्थ’ इति षष्ठी ॥
चरणेऽम्बुजमदहरणे सोढनतैनसि मदम्ब तव मनसि । वचने च मधुररचने मृदुता लोकोत्तरा विभातितराम् ॥ ५२३ ॥
अत्र मृदुतेति गुणः तदन्वितत्वं चरणादीनां, विभानक्रियायास्साक्षाद्धर्मिभिरनन्वयात् ॥
यथावा--
येनाश्रितो धवलिमा विपरीतोऽकारि धवलिमा येन । तस्मिन् शङ्खे चक्रेऽप्यहिशैलपतेर्महो ज्वलति किमपि ॥ ५२४ ॥
येन शङ्खेन धवलिमा पाण्डुरिमा आश्रितः, येन चक्रेण धवलिमा विपरीतः व्यत्यस्तः अकारि धवलिमा परास्त इति यावत् । इत्यापाततो विरोधः । धवलिमा इत्यानुपूर्व्या वैपरीत्ये मालिवध इति निष्पद्यते । प्रकृतमात्रस्यापि मालिवधेत्यस्य सुबन्तता कल्पनीया । ‘न केवला प्रकृतिः प्रयोक्तव्या' इति निषेधोऽपि कचिच्चित्रकाव्ये न दोषाय । यथोक्तं काव्यार्थचिन्तामणौ--
प्रातिलोम्यादिचित्रेषु प्रकृतेरेव हि क्वचित् ।
प्रयोगोऽपि न दोषाय नदी दीनो यथोच्यते ॥
इति । येन चक्रेण मालिनाम्नो राक्षसस्य वधः अकारीति तु