प्राकरणिकाप्राकरणिकान्यतरमात्रनिबन्धनसादृश्यवतां योगिता एकधर्मान्वयित्वं यत्रेति व्युत्पत्तेः । वर्ण्यानामित्यादौ बहुत्वं द्वयोरप्युपलक्षणम् । धर्मश्चात्र चमत्कारीतिं ज्ञेयम् । एवंच अनेकप्रस्तुतमात्रसंबद्धैकचमत्कारिधर्मानेकाप्रस्तुतमात्रसंबद्धैकधर्मान्यतरत्वं लक्षणं बोध्यम् । ‘मुखं विकसितस्मितं’ इत्यादावतिप्रसङ्गवारणायानेकेति । तत्र च मुखप्रेक्षितादिरूपानेकवर्ण्यसंबद्धो नैको धर्म इति तन्निरासः । दीपकवारणाय मात्रेति । प्रस्तुताप्रस्तुतप्रभेदसाधारण्यायान्यतरत्वनिवेशः । धर्मश्चात्र प्रायशो गुणक्रियारूप एव संभवतीति प्रस्तुतानामप्रस्तुतानां वा गुणक्रियारूपकधर्मान्वयस्तुल्ययोगितेत्युक्तं कुवलयानन्दे । तदेतदुपलक्षणं धर्ममात्रस्य । एतच्चोदाहरणावसरे स्फुटीभविष्यति। औपम्यं चात्र गम्यं, तत्प्रयोजकस्य समानधर्मस्योपादानाद्वाचकाभावाच्च । अत एवालंकारिकाणामपि सादृश्यं पदार्थान्तरं, न तु साधारणधर्मरूपमिति विज्ञायते । अन्यथा औपम्यस्यात्र गम्यत्वोक्तेरनुपपत्तेः । केचित्तु- सादृश्यभाव एवातिरिक्तः । सादृश्यं तु तत्तत्साधारणधर्मात्मकमेव । स चेवादिपदानां शक्यतावच्छेदकः तत्तत्साधारणधर्मवाचकैस्तु तत्तत्साधारणधर्मस्य स्वशक्यतावच्छेदकतत्तद्धर्मरूपेण बोधनेऽपि सादश्यभावरूपेण बोधो व्यञ्जनसाध्य एवेत्यापि वदन्ति ॥
यथा--
अश्रूदञ्चति चक्षुषि वपुषि च पुलकोऽथ संभ्रमो मनसि । अञ्जनभूधरधामन्नञ्जलिरपि मस्तके तव स्मरताम् ॥ ५२२ ॥
अत्र भागवतानां वर्ण्यत्वात्तदीयत्वेन प्रकृतानां कर्तॄणामश्रुप्रभृतीनामुदञ्चनक्रिया समानधर्मत्वेनोपात्ता । चक्षुरादीनामधिक-