पृष्ठम्:अलङ्कारमणिहारः.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
24
अलंकारमणिहारे

 ननु-'इवे प्रतिकृतौ’ इत्यधिकारे इवार्थविहितच्छादिप्रत्ययान्तानां 'कुशाग्रीया बुद्धिः, शैलेयं दधि' इत्यादीनां पदानां प्रयोगे धर्मोपादानं विना नैराकाङ्क्ष्यसद्भावात्संभवति श्रौती धर्मलुप्ताऽपीति चेन्न । 'इवे प्रतिकृतौ' इत्यधिकारविहितानां प्रत्ययानां तुल्यार्थ एव विधानाभ्युपगमावश्यंभावात् । अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभावेन कुशाग्रीया बुद्धिरित्याद्युपमेयसामानाधिकरण्यासम्भवात्सादृश्यविधानमपि सदृशे पर्यवस्यतीति सूत्रे इवग्रहणं न विरुध्यत इति वदन्ति ॥

 श्रौती धर्मलुप्ता वाक्ये यथा--

 जलदो यथा तथा त्वं नाकिन इह केकिनो यथैव तथा । जलधिर्यथा तथा त्वं नरा ननु सरिज्झरा यथैव तथा ॥ ३८ ॥

 अत्र हे भगवन्निति सम्बुद्धिस्सामर्थ्याल्लभ्यते । जलदो यथा केकिनो यथेत्यादौ यथेत्यसमस्ततया निर्देशाद्वाक्ये श्रौती धर्मलुप्ता, यथाक्रममानन्दावहत्वादेरुल्लासित्वादेश्च । एवं जलधिर्यथेत्यादौ प्राप्यत्वादेः नरा इवेत्यादौ तत्प्रवणत्वादेश्च साधारणधर्मस्यानुपादानात् ॥

 श्रौती धर्मलुप्ता समासे यथा--

 चिन्तामणिधरणीभृति रन्तारं भुवि जगन्नियन्तारम् । चिन्तामणिमिव मनुजास्त्वां तावत्संश्रिता हरे सर्वे ॥ ३९ ॥