पृष्ठम्:अलङ्कारमणिहारः.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
23
उपमालंकारसरः (१)

 त्वं निधिरिवेत्यत्र भोग्यत्वादिधर्मानुपादानाद्धर्मलुप्ता ॥१॥ तव सदृशो विभुर्नैवेत्युपमानस्य सामान्यतो निषेधादुपमानलुप्ता॥२॥ जलदनीलेत्यत्र जलद इवेति वाचकानुपादानाद्वाचकलुप्ता ॥३॥ जलजाक्षेत्यत्र जलजे इवाक्षिणी यस्येति प्रसन्नतादेर्धर्मस्य वाचकस्य चानुपादानाद्धर्मवाचकलुप्ता ॥४॥ तव सौशील्यमतुल्यमित्यत्र लोकोत्तरत्वादेर्धर्मस्य अतुल्यमिति निषेधेनोपमानस्य चानुपादानाद्धर्मोपमानलुप्ता ॥५॥ मित्रीयसि नतजने इत्यत्र मित्रमिवात्मानमाचरसीत्युपमेयभूतस्यात्मनो वाचकस्य चानुपादानादुपमेयवाचकलुप्ता ॥६॥ वाचकोपमानलुप्ता त्वग्रे उदाहरिष्यते । अब्धिगाम्भीर्य इत्यत्र अब्धेर्गाम्भीर्यमिव गाम्भीर्यमित्यस्मिन्नर्थे उपमानस्य वाचकस्य धर्मस्याप्यनुक्तेर्धर्मवाचकोपमानलुप्ता ॥७॥ इति सामान्यतस्सप्त लुप्तोदाहरणानि संगृहीतानि ॥

क्रमेण धर्मलुप्तादेर्विभागोऽथ प्रदर्श्यते ॥१४॥


पूर्णावद्धर्मलुप्ताऽपि श्रौत्यार्थीति द्विधा भवेत् ॥
तत्र श्रौती तद्धिते तु न स्यादन्वयहानतः ॥ १५ ॥

 शुद्धधर्मलुप्ता पूर्णावदेव श्रौती आर्थी चेति द्विधा भवेत् । वाक्य समासे तद्धिते च भवेत् । तत्र श्रौती धर्मलुप्ता तु तद्धिते न सम्भवेत् षष्ठीसमर्थात्सप्तमीसमर्थाद्वा विहितस्य वतेर्धर्मोपादानं विनाऽन्वयसौकर्याभावात् न हि भवति मधुरावत्पाटलिपुत्रे पाटलिपुत्रस्य वेत्यत्र प्राकार इति धर्मोपादानं विनाऽन्वयसौकर्यम्। तद्धिताधिकारविहितकल्पब्देश्यादिप्रयोगेऽपि कृष्णकल्पः कृष्णदेश्य इत्यादौ धर्मिसामानाधिकरण्यप्रतीतेरार्थ्येवेति श्रौत्या धर्मलुप्ताया असंभवात्सा पञ्चविधैव ॥