पृष्ठम्:अलङ्कारमणिहारः.pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
25
उपमालंकारसरः (१)

 अत्राभीप्सितदातृत्वादिधर्मानुपादानात् चिन्तामणिमिवेति समासे श्रौती धर्मलुप्ता । तद्धिते त्वियं न सम्भवतीत्यवोचाम । चिन्तामणिधरणीभृदिति वेङ्कटाद्रेरेव नामान्तरम् । तथा चोच्यते वामनपुराणे--

 चिन्तिसत्य तु सिद्ध्येमं चिन्तामणिगिरिं विदुः ॥ इति ॥ ब्रह्माण्डपुराणान्तर्गते वेङ्कटाद्रिमाहात्म्ये च--
 श्रीवेङ्कटगिरिर्नाम क्षेत्रं पुण्यं महीतले । इत्युपक्रम्य--
 अञ्जनाद्रिर्वृषाद्रिश्च वेदाद्रिर्गरुडाचलः ।
 तीर्थाद्रिश्श्रीनिवासाद्रिश्चिन्तामणिगिरिस्तथा ।
 वृषभाद्रिर्वराहाद्रिर्ज्ञानाद्रिः कनकाचलः ।
 आनन्दाद्रिश्च नीलाद्रिः क्रीडाद्रिः पुष्कराचलः ।
 सिंहाचलश्च श्रीशैलस्तथा नारायणाचलः ॥
 वैकुण्ठाद्रिश्शेषशैल इति नामानि विंशतिः ॥ इति ॥

 आर्थी धर्मलुप्ता वाक्यसमासतद्धितगा यथा--

 वृषशिखरिशिखरधरणी सदृशी रमणीमणेर्मुरारातिः । मृगमदतिलकनिकाशः पुष्करिणी दर्पणीकल्पा ॥ ४० ॥

 अत्र सदृशी रमणीमणेरिति वाक्यगा, मृगमदतिलकनिकाश इति समासगा, दर्पणीकल्पेति तद्धितगा चार्थी धर्मलुप्ता; रामणीयकश्यामलिमनैर्मल्यादिधर्माणामनुपादानात् ॥

 क्वचित्पटुपटुरित्यादौ द्विर्भावेऽपि धर्मलुप्ता दृश्यत इति

चित्रमीमांसाकाराः । तदेदमुदाहरणम्--

 ALANKARA
4