पृष्ठम्:अलङ्कारमणिहारः.pdf/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
277
उत्प्रेक्षासरः (१४)

 यथावा--

 जङ्घे तव जलजेक्षण जगतीविजिगीषुमनसिजनिषङ्गौ । वपुरुपवनप्रसारिततरुणिमलावण्यकरिकरायेते ॥ ४८१ ॥

 हे जलजेक्षण ! तव जङ्घे वपुरेव उपवनं तस्मिन् प्रसारितौ तरुणिमलावण्ये एव करिणौ तयोः करौ ताविवाचरत इत्यर्थः । अत्र करिकरायेते इत्यत्र उपमानात्कर्तुस्सुबन्तादाचारे विहितेन क्यङा आमुखे उपमाप्रतीतावपि वपुरुपवनेत्यादिविशेषणनैरर्थक्यादौचित्येनोत्प्रेक्षायामेव पर्यवसानम् ॥

 एवमुपमावाचकानां निभादिशब्दानां कल्पबादिप्रत्ययानां च प्रयोगेऽपि सामग्र्या औचित्यादुत्प्रेक्षायामेव पर्यवसानं बोध्यम् ॥

 यथा--

 नरहरिभुजाशिखरशिखानखांशवो दितिजहृदयगा व्यरुचन् । तदसुमरुदशनसत्वरविसृमरफणिफणशिखास्ररसननिभाः ॥ ४८२ ॥

 वाङ्माधुर्याध्ययनोपसन्नपीयूषवीचिदेश्यमिदम् । वदनविधूत्सङ्गलुठज्ज्योत्स्नाशिशुकल्पमम्ब तव हसितम् ॥ ४८३ ॥

 नाभीह्रदकृतमज्जनमदनगजोदस्तहस्तदेशीया । कौस्तुभभानूत्सङ्गच्युतयमुनाभाऽच्युतस्य रोमाळी ॥