पृष्ठम्:अलङ्कारमणिहारः.pdf/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
278
अलंकारमणिहारे

 रसगङ्गाधरकारस्तु क्यङाचारक्विबादीनामप्युत्प्रेक्षाप्रतिपादकत्वमेवाभाणीत् । तस्यापि पर्यवसाने उत्प्रेक्षाप्रतिपादकत्व एव तात्पर्यम् । यद्वा उत्प्रेक्षावाचका एव ते स्युः । यथोक्तं कल्पतरो

कल्पदेशीयदेश्याद्याः स्पर्धिप्रतिभटादयः ।
निभवद्वादयश्चापि क्वचित्संभावनापराः ॥

इति । विस्तरस्तु हंससंदेशरसास्वादिन्यां 'विष्णोर्वासात्’ इति पद्यव्याख्यावसरे कृतोस्माभिः । एवं रूपकादिप्रतीतिस्थलेष्वप्युत्प्रेक्षायां पर्यवसानं संभवतीति चित्रमीमांसायां प्रतिपादितम् । तदुदाहरणानि विस्तरभयान्नेह प्रदर्श्यन्ते इत्यलम् ॥

 ननु गम्योत्प्रेक्षाया अलंकारताकथनमनुचितं, तस्या अलंकारध्वनित्वादिति चेछ्रूयताम्- यत्र विषयविषयिनिमित्तेषूपात्तेषु केवलमिवादिवाचकानुपादानमात्रेणोत्प्रेक्षाऽवगम्यते साऽतिमात्रस्फुटतया वाच्यायमानत्वादलंकारतामेवाश्नुते । यथोदाह्रियत 'ईप्सितसरा निकामं’ इत्यादि । यत्र चोत्प्रेक्षणीयस्य विषयिणोप्यनुपादानं निबद्धेन वस्तुना अलंकारेण वा उत्प्रेक्षाऽवगम्यते तत्रैवोत्प्रेक्षाध्वनिः ॥

 यथा--

 उपगूढां हरिणीं श्रियमुरसा कृष्णेन वीक्ष्य वृषशैले । अभिवीक्षन्ते शश्वत्कृष्णं निजवल्लभं वनहरिण्यः ॥ ४८५ ॥

 कृष्णेन भगवता उरसा उपगूढां हरिणी ‘हिरण्यवर्णां हरिणीम्’ इति हरितवर्णतया श्रुतां हरितशब्दात् 'वर्णादनुदा-