पृष्ठम्:अलङ्कारमणिहारः.pdf/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
276
अलंकारमणिहारे

नक्तंदिवं रात्रिंदिवं परिष्कुरुत इति हेतूक्तिः । अत्र सहस्रांशौ द्युमणित्वापह्नवेन कौस्तुभमणौ तदुत्प्रेक्षा पूर्ववदेव सहेतुकपर्यस्तापह्नुतिगर्भा । सर्वेष्वप्युदाहरणेषु श्लेषसंकीर्णत्वम् ॥

 हेतूत्प्रेक्षायां सापह्नवत्वं यथा--

 कमलास्तनसुहृदयमिति नूनं शृङ्गारिशेखरोऽ हिगिरौ । वसति सदा नित्ययुवा मृषैव जगदुद्दिधीर्षयेति वचः ॥ ४७९ ॥

 अत्र भगवतश्शेषाद्रिनित्यनिवासे जगदुद्दिधीर्षाया हेतुत्वमपहृत्य तत्र कमलास्तनसुहृत्त्वहेतुकतायास्संभावनात्पर्यस्तापह्नुतिगर्भा हेतूत्प्रेक्षा ॥

 फलोत्प्रेक्षायां सापह्नवत्वं यथा--

 श्रितकामधेनुतां त्वं श्रीवेंकटनाथ सूचयितुमेव। अधिवत्सं श्रीवत्सं धत्से नूनं न तत्परिष्कर्तुम् ॥

 श्रीवत्सं श्रीयुक्तं तर्णकम् । पक्षे तन्नाम लाञ्छनम् । अधिवत्सं वक्षसि । 'उरो वत्सं च' इत्यमरः । अत्र श्रीवत्सधारणं प्रति फले वक्षःपरिष्कारे फलत्वनिह्नवपूर्वकमाश्रितकामधेनुत्वसूचनरूपफलोत्प्रेक्षा पर्यस्तापह्नुतिगर्भेत्यलं दूरधावनेन ॥

 अलंकारसर्वस्वकारादयस्तु 'क्वचित्पदार्थान्वयवेलायां सादृश्याभिधानादुपक्रान्ताऽप्युपमा वाक्यार्थतात्पर्यसामर्थ्यादुत्प्रेक्षायां पर्यवस्यति' इत्याहुः । तदनुसृत्य प्रागुल्लेखालंकारप्रकरणे 'मृगमदतिलकति' इति पद्ये उपक्रान्ताऽप्युपमा औचित्यादुत्प्रेक्षायां पर्यवस्यतीत्यवोचाम ॥