पृष्ठम्:अलङ्कारमणिहारः.pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
268
अलंकारमणिहारे

इति श्रुत्यर्थोऽनुसंधेयः । इह युगपत् विष्वग्दर्शनस्य नयनयोरुत्प्रेक्षायां तन्निमित्तं तयोर्विष्वग्वृत्तित्वमपेक्षितं, तच्च मकुटादिगतमणिवृत्ति न तु नयनवृत्ति भवतीति मण्यपह्नुत्या नयनगतं वितन्यते ॥

 यथावा--

 तावकचरित्ररूपं देव श्रवणान्तरात्प्रविश्यान्तः। सिद्धाञ्जनं किमपि नश्शुद्धामन्तर्दृशं व्यनक्तीव ॥

 हे देव! तावकचरित्ररूपं किमपि सिद्धाञ्जनं श्रवणयोरन्तराद्विवरात् अन्तः प्रविश्य नः अन्तः दृशं दृष्टिं ज्ञानं च शुद्धां निर्दोषां सतीं सर्ववस्तुसाक्षात्करणक्षमामिति यावत् । व्यनक्ति प्रकाशयति । अत्रान्तर्दृष्टिशोधनस्य सिद्धाञ्जने उत्प्रेक्षायां तन्निमित्तं बहिःप्रदेशादन्तःप्रदेशोऽपेक्षितः। स चान्तःप्रदेशसम्बन्धरूपो भगवच्चरित्रमात्रवृत्तिस्सिद्धाञ्जने न संभवतीति भगवच्चरित्रापह्नवेन सिद्धाञ्जननिष्ठः क्रियते ।  बिम्बप्रतिबिम्बभावेन साधारणीकरणं तु ‘करपद्मेन द्वेषात् इत्यत्र निरूपितम् ।

 यथावा--

 उपरिहरिनीलमणिरुचिकवचितहारमणि भगवतो हृदयम् । बीजाकृतमिव विलसति बहुफलदानाय तेन केदारम् ॥ ४६३ ॥

 उपरि हरिनीलमणिरुच्या कवचिताः आच्छादिताः हारस्य मणयो मौक्तिकानि यस्य तत्तथोक्तम् । नीलमणिप्रभान्तःप्रकाश मानमौक्तिकमिति भावः। भगवतो हृदयं तेन भगवता जनानामिति