पृष्ठम्:अलङ्कारमणिहारः.pdf/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
267
उत्प्रेक्षासरः (१४)

र्थान्तरं तु स्पष्टमेव । ‘उत्सः प्रस्रवणम् ' इत्यमरः । एते गिरय इत्यर्थः । अत्र हेमकूटादिशैलेषु विषये शेषाद्रिदासतादात्म्योत्प्रेक्षायां तदायत्तत्वादिलक्षणो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां च कनकशिखरवृत्रारिनिर्ज्झराणामभेदसंपादनद्वारा विषयसाधारणीकृतः ॥

 अपह्नुत्या साधारणीकरणं यथा--

 हृदयास्पदा तव दया वदनात् स्मितभानिभादुदञ्चन्ती । भुवि फणिगिरिमणिरमणि स्वविषयमखिलं समीक्षते मन्ये ॥ ४६० ॥

 यथा अवरोधगता महाराज्ञी-- विलासवशादुच्चैस्सौधान्तरादुदेत्य निखिलं निजदेशं पश्यति तथा तव हृदयगा दया उच्चैर्वदनमधिरुह्य स्वगोचरमखिलं जनं समीक्षत इवेति भावः। अत्र स्वविषयविलोकनस्य दयायामुत्प्रेक्षणे तदर्थमान्तरप्रदेशाद्बहिरुद्गमनमपेक्षितं, तच्च बहिःप्रदेशसम्बन्धरूपं स्मितप्रभामात्रवृति दयायां न संभवतीति स्मितप्रभापह्नवेन दयागतं क्रियते ॥

 यथावा--

 मकुटादिमणिव्याजात्परितो नानात्वमेत्य भवतो नयने । पश्यत इवेश विष्वक्प्रकाशनायैष विश्वतश्चक्षुरिति ॥ ४६१॥

 हे ईश! सर्वेश्वर! भवतो नयने कर्तृणी एषः सर्वेश्वरो भगवान् विश्वतश्चक्षुः सर्वतोमुखलोचनवानिति प्रकाशनाय पश्यत इवेति योजना । अत्र ‘विश्वतश्चक्षुरुत विश्वतोमुखः'