पृष्ठम्:अलङ्कारमणिहारः.pdf/२७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
269
उत्प्रेक्षासरः (१४)

शेषः। वहूनि फलानि धान्यरूपाणि, पक्षे ऐहिकामुष्मिकापवर्गिकाखिलप्रयोजनानि । तेषां दानाय बीजाकृतं यावनाळादिबीजेन सहकृष्टं उप्तकृष्टं आदौ बीजान्युप्त्वा उपरि हलविशेषकर्षणेन समीकृतकृष्णमृदिति भावः । ‘कृञो द्वितीयतृतीयशम्बबीजात्कृषौ' इति बीजशब्दात्कृञो योगे कृषिरूपार्थे डाच् । ‘बीजाकृतं तूप्तकृष्टम्' इत्यमरः । केदारं क्षेत्रमिव भाति । अत्र हरिवक्षसः केदारतादात्म्यसंभावनायां उपरिहरिनीलमणिरुचिकवचितहारमणिबीजाकृतयोर्बिम्बप्रतिबिम्बभावापन्नयोरभेदाध्यवसायेन साधारण्यसंपादनम् ॥

 एवं 'भित्वा भानोः' इत्यादावपि ॥

 बिम्बप्रतिबिम्बभावकरम्भितवस्तुप्रतिवस्तुभावेन यथा--

 कमलारुचिपरिवीतः कौस्तुभमणिरेष शोभते सुतराम् । स्वसृपतिविडम्बनाय स्वयमपि पीताम्बरेण किं छन्नः ॥ ४६४ ॥

 स्वसृपतेः निजभगिनीजानेर्भगवतः विडम्बनाय परिहासार्थानुकरणाय । अत्र कमलारुचिपीताम्बरयोर्बिम्बप्रतिबिम्बभावः । तत्करम्भितश्च परिवीतच्छन्नयोर्वस्तुप्रतिवस्तुभाव इति तेन साधारण्यम् ॥

 उपचारेण यथा--

 मधुरामतिगम्भीरां विशदां शिशिरां विगाहमानानाम् । गरुडगिरिशिखरमण्डन गङ्गां मन्यामहे कथां भवतः ॥ ४६५ ॥