पृष्ठम्:अलङ्कारमणिहारः.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
21
उपमालंकारसरः (१)

तासम्बन्धेन विशेषणम् । चन्द्रादिविशेषितं च सादृश्यं मुखादावनुयोगितासम्बन्धेनान्वेति । चन्द्रप्रतियोगिकसादृश्यानुयोगिमुखमित्याकारकश्चन्द्र इव मुखमित्यादौ बोध इति बोध्यम् ॥

 तत्र श्रौती त्रिविधा यथा--

 गगनं यथा फणीश्वरनगपतिहृदयं विनीलमुज्ज्वलति । तारावळिरिव हारावळिरार्द्रावच्च कौस्तुभे शोभा (कौस्तुभस्य श्रीः) ॥ ३५ ॥

 अत्र गगनं यथेत्यादिविनीलमित्यन्ते श्रौती वाक्ये पूर्णा यथेत्यसमस्तस्य वाचकस्य गगनमित्युपमानस्य फणीश्वरनगपतिहृदयमित्युपमेयस्य विनीलमिति साधारणधर्मस्य चोपादानात् । तारावळिरिव हारावळिरित्यत्र समासे श्रौती पूर्णा । 'इवेन सह समासो विभक्त्यलोपश्च' इति इवशब्दयोगे समासस्य विभक्त्यलोपस्य च स्मरणात् । वाचकादीनां चतुर्णामुपादानाच्च । आर्द्रावत्कौस्तुभे शोभेत्यत्र तद्धिते श्रौती पूर्णा । सप्तमीसमर्थाद्वतेः 'तत्र तस्येव' इति सूत्रेण इवार्थविहितवतेर्वाचकस्य उपमादीनां त्रयाणां चोपादानात् आर्द्रायामिव आर्द्रावदिति विग्रहः । कौस्तुभस्य श्रीरिति पाठे आर्द्राया इवेति विग्रहः षष्ठीसमर्थादप्युक्तसूत्रेणैव वतेर्विधानात् ॥ ३५ ॥

 आर्थी त्रिविधा, पूर्णा यथा--

 शशधरबिम्बेन समो विशदतया कुन्दबृन्दसङ्काशः । धवळसरोरुहवदयं प्रविलसति करोदरे हरेश्शङ्खः ॥ ३६ ॥