पृष्ठम्:अलङ्कारमणिहारः.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
22
अलंकारमणिहारे

 शशधरबिम्बेन समो विशदतयेत्यत्रार्थी पूर्णा वाक्ये । विशदतयेत्येतत्सर्वत्रान्वेति । कुन्दबृन्दसङ्काश इत्यत्रार्थी समासे पूर्णा । धवळसरोरुहवदित्यत्रार्थी तद्धिते पूर्णा ‘तेन तुल्यं क्रिया चेद्वतिः' इति तुल्यार्थविहितस्य तद्धितस्य वतिप्रत्ययस्योपादानात् । एवं षड्विधाऽपि पूर्णा संक्षेपत उदाहृता ॥

 अथ लुप्तास्सामान्यतो विभजते--

त्रिविधा स्यादेकलप्ता द्विलुप्ता तु चतुर्विधा ।
एकरूपा त्रिलुप्तेति लुप्ता सामान्यतोऽष्टधा ॥ ११ ॥
धर्मस्याथोपमानस्य वाचकस्य विलोपने ।
त्रिविधा स्यादेकलुप्ता द्विलुप्ता तु चतुर्विधा ॥ १२ ॥
धर्मवाचकयोर्लोपे तथा धर्मोपमानयोः ।
वर्ण्यवाचकयोस्तद्वद्वाचकावर्ण्ययोरपि ॥ १३ ॥
त्रिलुप्ता त्वेकधा धर्मवाचकावर्ण्यलोपतः ॥

 धर्मलुप्ता, उपमानलुप्ता, वाचकलुप्ता चेति त्रिविधा एकलुप्ता । द्विलुप्ता तु- धर्मवाचकलुप्ता, धर्मोपमानलुप्ता, उपमेयवाचकलुप्ता, वाचकोपमानलुप्ता चेति चतुर्विधा । त्रिलुप्ता तु--धर्मवाचकोपमानलुप्तेत्येकविधेति सामान्यतो लुप्ताऽष्टविधा ॥

 यथा--

 त्वं निधिरिव तव सदृशो नैव विभुर्जलदनीलजलजाक्ष । तव सौशील्यमतुल्यं मित्रीयसि नतजनेऽब्धिगाम्भीर्यः ॥ ३७ ॥