पृष्ठम्:अलङ्कारमणिहारः.pdf/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
20
अलंकारमणिहारे

ये धर्मिव्यवधानेन सादृश्यप्रतिपादकाः ।
सदृङ्निभादिशब्दानां तेषामार्थी प्रयोगतः ॥ १० ॥

 श्रौतीमार्थीं च लक्षयति । यथेत्यादिना-- साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती श्रुत्या सादृश्यप्रतिपादनात् । वादीत्यादिशब्देन 'तत्र तस्येव' इति विहितवतेर्ग्रहणम् । तस्य इवार्थे विहितत्वात् । सादृश्यविशिष्टधर्मिपर्यन्ततुल्यसदृशसदृङ्निभसङ्काशादिशब्दानां प्रयोगे आर्थी, अर्थसिद्धत्वात् । निभादीत्यादिशब्देन 'तेन तुल्यं’ इति विहितवतेर्ग्रहणम् । तस्य तुल्यार्थे वािहितत्वात् । यद्यपि यथेववादिपदानि यस्माच्चन्द्रादिपदात्पराणि प्रयुज्यन्ते, तानि तदर्थस्य चन्द्रादेरुपमानत्वप्रतीतेरुपमानविशेषणानि सन्ति स्वसमभिव्याहृतपदार्थस्योपमानत्वप्रतीतिप्रयोजकानि । न तु मुखादेरुपमेयत्वप्रतीतिप्रयोजकानि । तथाऽपि यथा राज्ञः पुरुष इत्यत्र षष्ठ्यास्स्वसमभिव्याहृतप्रातिपदिकार्थे राज्ञः स्वार्थभूतसम्बन्धप्रतियोगित्वप्रतीतिप्रयोजकत्वेऽपि पुरुषपदसमभिव्याहारे सति व्युत्पत्तिमहिम्ना तदनुयोगित्वप्रतीतिरपि तथा मुखादिसमभिव्याहारे मुखाद्यनुयोगित्वप्रतीतिरपि सम्भवति । एतेन पद्ममिव मुखमित्यत्र पद्मसादृश्यं मुखमिति प्रतीतिस्स्यात्, न तु पद्मसदृशं मुखमिति परास्तम् । यथा राज्ञः पुरुष इत्यत्र प्रकृतिप्रत्ययपुरुषपदैः राजा संबन्धः पुरुष इति प्रतीतावपि समभिव्याहारवशाद्राजसम्बन्धी पुरुष इति प्रतीतिः, तथैव व्युत्पत्तेः। एवमत्रापि विशिष्टप्रतीत्युपपत्तिरित्याहुः प्राञ्चः ।

 वस्तुतस्तु—इवार्थस्सादृश्यमेव । तच्च नोपमानस्य चन्द्रादेर्विशेषणम् । किं तु उपमानभूतश्चन्द्रादेरेव सादृश्ये प्रतियोगि-