पृष्ठम्:अलङ्कारमणिहारः.pdf/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
255
उत्प्रेक्षासरः(१४)

 द्रव्याभावहेतूत्प्रेक्षा यथा--

 अहिगिरिगा हरिरुचिभिस्स्वदक्षिणार्धाङ्गकेऽपि मेचकिते । काळी गौरी समजनि शर्वाभावादिवात्यर्थम् ॥ ४४१ ॥

 काळी निसर्गतो नीलवर्णा हरार्धशरीरस्था पार्वती ‘जानपद’ इत्यादिना ङीष् । अहिगिरिगा भगवत्सेवार्थं शेषाद्रिगता सतीति भावः । हरिरुचिभिः श्यामलाभिरिति भावः । स्वदक्षिणार्धाङ्गकेऽपि भर्तृरूपे स्वदक्षिणार्धावयवेऽपि अर्धनारीश्वरस्य पार्वतीदक्षिणार्धशरीरस्थत्वात् । मेचकिते श्यामलिते सति । अपिशब्दस्स्वशरीरश्यामलिमानं समुच्चिनोति । शर्वाभावादिव स्ववल्लभाभावादिव शरीरदक्षिणवामार्धयोरुभयोरप्यविशेषेण निपद्यमाने कालिम्नि पत्यर्धशरीरेऽपि स्वशरीरार्धान्तरसंभावनया पत्युरभावमाशङ्क्य निर्वेदमश्नुवानेति भावः । अत्यर्थं गौरी बभूव पाण्डुराऽऽसीत् । अन्यथा स्वतः कालवर्णाया अस्याः कथं गौरवर्णता स्यादिति भावः । एकस्या एव पार्वत्याः कालवर्णत्वगौरवर्णत्वविरोधो जन्मभेदेन परिहार्यः । अत्र शर्वरूपद्रव्याभावः काळ्याः निर्वेदपूर्वकगौरतां प्रति हेतुत्वेन संभावित इति गुणनिमित्तेयं द्रव्याभावहेतूत्प्रेक्षा । ‘अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम्' इति द्रव्योत्प्रेक्षोदाहरणे 'वस्तुतोऽर्धनारीश्वरस्यैकत्वात् द्रव्योत्प्रेक्षा' इत्युक्तं चित्रमीमांसायाम् । अतोऽर्धनारीश्वरस्य द्रव्यत्वमव्याहतम् ॥

 यथावा--

 चिन्तामणेरभावाद्धरणौ चिन्तामणिक्षितिधरेन्द्रम् । सर्वमनोरथवितरणधूर्वहमसृजज्जगत्स्रष्टा ॥