पृष्ठम्:अलङ्कारमणिहारः.pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
256
अलंकारमणिहारे

 अत्र धरण्यधिकरणकचिन्तामण्यभावश्चिन्तामणिगिरिसर्जनं प्रति हेतुतया संभावितः । क्रियानिमित्तेयं द्रव्याभावहेतूत्प्रेक्षा । चिन्तामणिगिरिरिति शेषाद्रेरेव नामान्तरमित्यवोचाम, तन्न विस्मर्तव्यम् । इति हेतूत्प्रेक्षादिक् ॥

 अथ फलोत्प्रेक्षा--तत्र जातिफलोत्प्रेक्षा यथा--

 रमया सह वृषशिखरिणि समये विजिहीर्षतो मुरारातेः । पटमण्डपाय नूनं जृम्भन्तेऽम्भोधरास्ससंरम्भाः ॥ ४४३ ॥

 अत्र पटमण्डपत्वरूपजात्यवच्छिन्नः अम्भोधरजृम्भणस्य फलतयोत्प्रेक्ष्यत इति क्रियानिमित्तजातिफलोत्प्रेक्षा । न चात्र संपादनक्रियामन्तरा शुद्धाया जातेरफलत्वात्क्रियाया एव फलत्वमिति वाच्यम् । संपादनस्य संसर्गतया तद्द्वारेणैव जात्यादेः फलत्वोपपत्तेः । अन्यथा फलत्वबोधकचतुर्थ्या अनुपपत्तेः । अत एव ‘यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् , ब्राह्मण्याय तपस्तेपे विश्वामित्रस्सुदारुणम्’ इत्यादयः प्रयोगा उपपद्यन्ते । एवं जात्यादिनिमित्ता अपि जातिफलोत्प्रेक्षा उदाहार्याः ॥

 गुणफलोत्प्रेक्षा यथा--

 असितघनरुचिर इति मत्सदृशाख्यो हरिरशंसि निगमान्तैः । इति तादृशनीलिम्ने विधुः कलङ्कं दधाति किं स्वाङ्गे ॥ ४४४ ।।

 अत्र हरिविधुशब्दौ भगवच्चन्द्रोभयवाचिनौ । असितघनरुचिरः नीलाम्बुदमनोहर इति । निगमान्तैः 'नीलतोयदमध्यस्था'