पृष्ठम्:अलङ्कारमणिहारः.pdf/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
254
अलंकारमणिहारे

अत्र मरुत्त्वप्राप्तिं प्रति सलिलरूपजात्यभावो हेतुतयोत्प्रेक्ष्यते । श्लेषोज्जीवितेयम् ॥

 गुणाभावहेतूत्प्रेक्षा यथा--

 विहरति मयि सानन्दं सह रमया स हरिरेव किं मेऽन्यत् । आशास्यमित्यनाकुलभावात्प्रायेण निश्चलोऽहिगिरिः ॥ ४३९ ॥

 प्रायेणेत्येतदुत्प्रेक्षाव्यञ्जकम् । अत्र अनाकुलभावादिति गुणभावो नैश्चल्यं प्रति हेतुत्वेनोत्प्रेक्ष्यते । इयं चलनरूपक्रियाभावनिमित्ता गुणाभावहेतूत्प्रेक्षा । एवं जात्यादिनिमित्ता अप्यूह्याः ॥

 क्रियाभावहेतूत्प्रेक्षा यथा--

 मध्यमतां त्यक्तुं तव मध्यममर्वाक्छिरः प्रतप्यापि । तदलाभात्क्रशिमानं नूनं प्रापाहिशैलपतिदयिते ॥ ४४० ॥

 तव मध्यमं मध्यमतां उत्कर्षापकर्षशून्यतां, पक्षे अवलग्नतां त्यक्तुं अर्वाक्छिरः प्रतप्यापि अधश्शिरस्तपस्तप्त्वाऽपि विलोमतयाऽवस्थानमेवाधश्शिरस्तपस्यात्वेनाध्यवसीयते । तदलाभात् मध्यमतात्यागाप्राप्तेः मध्यममिति वर्णावळेर्विलोमत्वेऽपि मध्यममित्येवावस्थानाच्छब्दार्थयोस्तादात्म्यमुपजीव्य तदलाभादित्युक्तम् । क्रशिमानं प्राप । अत्र लाभक्रियाभावः क्रशिमप्राप्तिं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति क्रियानिमित्तक्रियाभावहेतूत्प्रेक्षेयं श्लेषातिशयोक्त्युत्तम्भिता । एवं जात्यादिनिमित्तक्रियाभावोत्प्रेक्षा अप्यूह्याः ॥