श्रीः लक्ष्मीः आमोदं सौरभं हर्षं च प्रापिता । अत्र भगवता स्वत एवातिमृदुलताश्रीरामोदं प्राप्यते न तु स्वं माधवत्वमभिव्यञ्जयितुमित्यफलस्य तद्व्यञ्जनस्य फलत्वेन संभावनाफलोत्प्रेक्षा तादृशव्यञ्जनस्यासिद्धत्वादसिद्धविषया । इयं सभङ्गश्लेषेणोत्तम्भिता । पूर्वा त्वभङ्गश्लेषेणेति भिदा ॥
यथावा--
सरसहिततामवाप्तुं विहाय तामरसतां स्वतस्सिद्धाम् । उरगवरगिरिपते भवदुरसि सरसिजानि माल्यतां प्रापुः ॥ ३८८ ॥
सरसेभ्यो रसिकेभ्यः हिततां सरसतां हिततां वा अवाप्तुं तां तथाविधां अरसतां अरसिकत्वं, पक्षे तामरसतामिति समस्तं पदम् । तामरसत्वमित्यर्थः । अत्र सरसहिततावाप्तेश्शशशृङ्गायमानायास्सरसिजकर्तृकमाल्यतावाप्तिं प्रत्यफलस्यापि फलतया संभावना असिद्धविषया फलोत्प्रेक्षा इयमपि पूर्ववत्सभङ्गश्लेषदत्तहस्तैवेति ध्येयम् ॥
यथावा--
न्यसितुं पदमहिशिखरिण्यकृतकनगरात्त्वरान्वितोऽवतरन् । क्षुभितं वलग्नमच्युत संवाहयितुं किलात्र करमदधाः ॥ ३८९ ॥
अत्र परमव्योमावधिकसत्वरावतरणप्रयोज्यक्षोभाश्रयस्वावलग्नकर्मकसंवाहनस्य भगवत्कर्तृकस्य तत्कर्तृकस्वाभाविकनिजावलग्नाधिकरणकसव्यपाणिन्यसनं प्रत्यफलस्यापि फलत्वेन संभा-