पृष्ठम्:अलङ्कारमणिहारः.pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
226
अलंकारमणिहारे

वना फलोत्प्रेक्षा संवाहनस्य विषयस्यासिद्धत्वादसिद्धविषया । इयं शुद्धा पूर्वास्तु संकीर्णा इति वैलक्षण्यम् ॥

 अत्रैवं बोधप्रकारः--वस्तूत्प्रेक्षोदाहरणे ‘सुरगिरिशिशुरिव महाकिरीटः' इत्यत्र सुरगिरिशिशुत्वावच्छिन्नस्य इवार्थे संभावनायां प्रकारतयाऽन्वयः । संभावनायाश्च विषयतासंबन्धेन महाकिरीटेऽन्वयः । तथा च सुरगिरिशिशुप्रकारकसंभावनाविषयो महाकिरीट इति बोधः । महाकिरीटविषया सुरगिरिशिशुप्रकारिका च संभावना तादात्म्यसंसर्गेणैव, तथाऽनुभवात्, चमत्कृतिप्रयोजकस्य संसर्गान्तरस्याभावाच्च । न त्वेवं सुरगिरिशिशुत्वप्रकारिका, तस्य सुरगिरिशिशूपसर्जनत्वात् । एवं ध्रुवं नूनमित्यादिशब्दसमभिव्याहारेऽपि बोध्यम् । ‘मुखं चन्द्रं मन्ये' इत्यादौ तु चन्द्राभिन्नमुखविषया संभावनेति बोधः, नामार्थयोरभेदान्वयव्युत्पत्तेः । एवं ‘मुखं चन्द्रं संभावये तर्कये' इत्यादावपीति ध्येयम् । अभिषिञ्चतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु अभिषिञ्चतिना साध्यवसानलक्षणया अभिषेचनानन्दोभयसाधारणेनाप्यायकत्वादिना रूपेणोपस्थापिते आनन्दने अभिषेचनसंभावनान्वयादाप्यायकं भगवत्कर्तृकस्वकर्मकाभिषेचनप्रकारकसंभावनाविषय इति बोधः । एवमनक्तीवेत्यादावपि ज्ञेयम् । "लिम्पतीव तमोङ्गानि’ इत्यत्र व्यञ्जनयोपस्थापिते व्यापने तादृशसंभावनान्वयः” इति काव्यप्रदीपकारः ॥

 हेतूत्प्रेक्षोदाहरणे ‘अञ्जनशिखरिणि सततासञ्जनतो नूनमसित एष हरिः' इत्यत्र पञ्चमीस्थानिकतसेर्हेतुरर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः हेतोश्च स्वप्रयोज्यतासंबन्धेनासितत्वविशिष्टेऽन्वयः । विशेषणस्य प्रयोज्यत्वे विशिष्टस्यापि तत्प्रयोज्यत्वाव्याहतेः। यद्वा स्वप्रयोज्याश्रयत्वसंबन्धेनान्वयः। तस्य प्र-