पृष्ठम्:अलङ्कारमणिहारः.pdf/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
224
अलंकारमणिहारे

दीनां पर्यायशब्दानां सहप्रयोगो दृष्ट इष्टश्च । किंच उदाहृते माघकाव्यपद्ये चटुलाहिपताकयेत्यत्राहेः ध्वजपटीत्वेन रूपणस्यैव उरगाशनकेतुयष्ट्येत्येतदनुरूपता । अत एव ‘व्याकृत्तशीर्षकरको विमलास्थिदन्तो रक्तह्रदांशुकधरो रथकेतुदण्डः' इति चम्पूभारतपद्ये केतुयष्टेः यतिधार्यदण्डत्वेन रूपणं, ‘असौ ते पूर्वेषां सुचरितपताका यदमरस्रवन्ती' इति मुरारिमिश्रपद्ये मन्दाकिन्यास्सुचरितपताकात्वेन रूपणं च योयुज्यते । ‘ध्वजार्धसम्मितां चैव पताकां चैव चित्रयेत्’ इति ध्वजारोहणप्रकरणगतपाद्मसंहितावचनं चात्रैवानुकूलम् । अत्र विशदयितुमिति तुमुनोऽर्थः फलम् । एवं वक्ष्यमाणोदाहरणेऽपि । पूर्वोदाहरणेषु चतुर्थ्यर्थः फलम् । अत्र भगवता निजोरस्स्थलस्य लक्ष्मीजयकेतनताभिव्यञ्जनं तत्र वैजयन्तीबन्धनं प्रत्यफलं तत्फलत्वेन संभाव्यत इति फलोत्प्रेक्षा तादृशव्यञ्जनस्यासिद्धत्वादसिद्धविषया केतनवैजयन्तीशब्दप्रतिपाद्यगृहध्वजवनमालापताकारूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणितेति विशेषः ॥

 यथा वा--

 अञ्जनभूधरविभुना व्यञ्जयितुं माधवत्वमिव नैजम् । हृद्याऽतिमृदुलताश्रीरामोदं प्रापितोपवनमालम् ॥ ३८७ ॥

 अञ्जनभूधरपतिना नैजं माधवत्वं मधुमासत्वं श्रीपतित्वं च । 'माधवोऽजे मधौ राधे’ इति मेदिनी । व्यञ्जयितुमिव उपवनमालं वनराजीसमीपे वैजयन्तीसमीपे च । हृद्या हृदयस्य प्रिया वक्षसि स्थिता च । अतिमृद्व्यश्च ताः लताश्च तासां श्रीस्समृद्धिः, पक्षे अतिशयिता मृदुलता सुकुमारता यस्यास्सा