पृष्ठम्:अलङ्कारमणिहारः.pdf/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
210
अलंकारमणिहारे

कमलासंपदोः कृष्णहरितोर्नागसर्पयोः ।
पीतलोहितयोस्स्वर्णपरागाग्निशिखादिषु ॥
चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः।
दानवासुरदैत्यानामैक्यमेवाभिसंहितम् ॥ इति ॥

 शीतांशुरुचिमिषाद्दिवि शीताद्र्यनिमिषधुनी मिषादवनौ । पाताले शेषमिषात्ख्यातानि यशांसि तव विभान्ति विभो ॥ ३६६ ॥

 शीताद्रिः हिमगिरिः । अनिमिषधुनी गङ्गा । तयोर्मिषात् व्याजात् । हे विभो भगवन् !॥

 ऊर्ध्वं नभस्तलनिभादधश्च वसुधातलच्छलाद्भगवन् । जलधिच्छलात्समन्ताद्विभा विभक्ता विभाति तव भूमन् ॥ ३६७ ॥

 वसुधातलस्य नैल्यं 'यत्कृष्णं तदन्नस्य’ इति श्रुत्यनुरोधिना ‘क्ष्मामण्डलं कुवलयाकरकोमलाभम्' इतिवर्णनेन सिद्धमिति ध्येयम् ॥

 क्वचिदिह मरकतरूपं क्वचिदब्भ्रनिभं क्वचित्तमालनिभम् । क्वचिदिन्दीवरदम्भं महोज्ज्वलं तव महो जगति भाति ॥ ३६८ ॥

 निभशब्दोऽत्र व्याजवाची ‘निभस्तु कथितो व्याजे' इति मेदिनी । अत्र श्यामलत्वेन प्रसिद्धस्य भगवन्महसः हरिद्वर्णमरकतोपमानकथनं अनुपदोदाहृतप्रमाणेन नीलहरिद्वर्णयोरभेदप्रतिपादनात् ॥