पृष्ठम्:अलङ्कारमणिहारः.pdf/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
211
अपह्नुतिसरः‍‍(१३)

 हीरमिषात्ताटङ्के हारमिषादम्ब कंधरायां ते । माल्यमिषाद्धम्मिल्ले स्मितरुचिशकला हरेर्विभान्त्यमलाः ॥ ३६९ ॥

 एषूदाहरणेषु सुमेरुप्रभृतीन्बहून्निषिध्य तत्र प्रतापादेरेकस्यारोपः ॥

 द्वितीया यथा--

 वेदांस्तत्प्रतिपाद्यान्पुरुषार्थांस्तत्कृते नृभिरूपास्यान् । चतुरो भगवद्व्यूहान्बाहाव्याजाद्बिभर्षि जननि त्वम् ॥ ३७० ॥

 चतुर इत्येतत् वेदपुरुषार्थभगवद्व्यूहानां त्रयाणामपि विशेषणम्। वेदाः ऋग्यजुस्सामाथर्वाख्याः पुरुषार्थाः धर्मार्थकाममोक्षाख्याः । भगवद्व्यूहाः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्याः । अत्र लक्ष्मीबाहानिषेधपूर्वकं तत्र वेदादीनां बहूनामैक्यारोपः ॥

 भुवनत्रयीं त्रयीं वा त्रिगुणां वा प्रकृतिमहिगिरिद्युमणे । कुक्षौ निधायभगवन्रक्षस्यविरळवळित्रयीव्याजात् ॥ ३७१ ॥

 त्रयीं ऋगादिवेदत्रयं 'स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी' इत्यमरः । त्रिगुणां सत्त्वरजस्तमोगुणात्मिकाम् । अत्रापि वळित्रयीनिषेधपूर्वकं तस्यां भुवनत्रय्यादीनामनेकेषामैक्यारोपः ॥

इत्यलंकारमणिहारे अपह्नवसरस्त्रयोदशः