पृष्ठम्:अलङ्कारमणिहारः.pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
209
अपह्नुतिसरः‍‍(१३)

तिपादितत्वं विमर्शिनीकारानुरोधेनोक्तम् । वस्तुतस्तु कैतवापह्नुत्यनुप्राणितं व्यधिकरणरूपकमेवेदं भविष्यति । अत एव विमर्शिनीकारानुरोधिनाऽपि रसगङ्गाधरकारेणायं पक्षोऽनादृत इति ध्येयम् ॥

 इयं मालारूपाऽपि भवति । तत्रापि बहून्निषिध्य एकस्यारोपे एकं निषिध्य बहूनामारोपे चेति द्विधेति कौस्तुभकारादयः ॥

 तत्राद्या यथा--

 मणिसानुमिषाद्धरणौ फणिशय फणिमणिमिषेण पाताळे । सुरसरणौ द्युमणिमिषात्प्रतापराशिः कृतावतारस्ते ॥ ३६४ ॥

 मणिसानुः सुमेरुः । फणिशयेति भगवत्संबुद्धिः । अन्यत्सुगमम् ॥

 विद्रुममिषेण जलधौ कलधौताम्बुजमिषेण सुरसरिति । करुविन्दबृन्दमिषतो द्विषतां मौळिष्वभात्प्रभावस्ते ॥ ३६५ ॥

 कलधौतं हेम ‘कलधौतं रूप्यहेम्नोः' इत्यमरः । मन्दाकिन्यां हेमारविन्दस्थितिः प्रसिद्धा । प्रभावः प्रतापः । 'स्यात्प्रतापः प्रभावश्च' इत्यमरः । अत्र पीतवर्णतया प्रथितस्य कनकाचलादेः लोहिततया प्रसिद्धस्य विद्रुमादेश्च लोहिततयैव कविसमयसिद्धं प्रतापं प्रत्युपमानतावर्णनं पीतलोहितयोर्वर्णयोरभेदस्यापि कविसमयसिद्धत्वादित्यवधेयम् । तथाचोक्तमलंकारशेखरे--

 ALANKARA
27