पृष्ठम्:अलङ्कारमणिहारः.pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
208
अलंकारमणिहारे

 यथा वा--

 शितभानुरपि प्रथयति सितभानुरिव द्विजन्मराजत्त्वम् । मणिनूपुरयुगवपुषा फणिनायकशैलनाथपदयुग्मे ॥ ३६२ ॥

 अत्र नेदं मणिनूपुरयुगं अपितु द्विजन्मराजत्त्वं प्रकाशयंस्तिग्मभानुरेवेत्यसत्यपर्यवसायिवपुश्शब्दबलान्निषेधः प्रतीयते । एकवाक्यत्वादिकं पूर्ववत् । निरवयवा चेयम् । द्विजन्मराजत्वं द्विजराजत्वमित्यर्थः । ‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः' इति श्रुतेश्चन्द्रमसो द्विजराजत्वम् । राजत्त्वमित्यत्रार्थान्तरानुरूप्याय ‘अनचि च' इति तकारस्य द्वित्वम् । पक्षे-–राजतो भावः राजत्त्वं द्विविधे जन्मनी द्विजन्मनी ताभ्यां राजत्त्वं प्रकाशमानत्वमित्यनयोरर्थयोः श्लेषेणाभेदाध्यवसायः ॥

 विमर्शिनीकारस्तु छलादीत्यादिशब्देन तृतीययाऽपि क्वचिदसत्यत्वं प्रतिपाद्यत इत्यभाणीत् । तत्रेदमुदाहरणं--

 फणिगिरिमिषोदयाद्रौ मधुमथनच्छलसुधाकराभ्युदये । तदुपत्यकावनच्छलजलधिः फेनायते स्म कुसुमौघैः ॥ ३६३ ॥

 फेनमुद्वमति फेनायते “फेनाच्चेति वक्तव्यम्' इति वार्तिकेन उद्वमनार्थे क्यङ् । अत्र कुसुमौघैरिति तृतीयया नायं कुसुमौघः किंतु फेन एवेत्यपह्नवनिबन्धनम् । यद्यपीदृशस्थले ‘नद्या शेखरिणे’ इत्यादाविव वैयधिकरण्येनारोपरूपं रूपकमेवेति युक्तम्, अथाप्यपह्नवोपक्रमानुरोधेनान्तेऽप्यपह्नवस्य तृतीयया प्र-