पृष्ठम्:अलङ्कारमणिहारः.pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
192
अलंकारमणिहारे

श्शिखरे । कनकसरोरुहजठरे कनति विलग्नो मधुव्रतवरेण्यः ॥ ३३३ ॥

 अत्र तपनीयकनकयोः अन्तर्जठरयोश्च वस्तुप्रतिवस्तुभावः । तत्करम्भितो विमानस्य सरोरुहस्य च बिम्बप्रतिबिम्बभावः कनतीत्यस्यानुगामित्वं चेति द्रष्टव्यम् ॥

 संबन्धान्तराद्यथा--

 न भगवदाविर्भावः फणिशिखरिणि यद्विभाव्यते मुनिभिः । अपि तु जगतां विनमतामशुभपिशाचीतिरोभावः ॥ ३३४ ॥

 अत्र भगवदाविर्भावस्य कारणस्य निषेधेन अशुभपिशाचीतिरोभावस्य कार्यस्य विधिः । एवमारोपगर्भा सप्रपञ्चं प्रदर्शिता । अध्यवसानसगर्भा पुनः प्रदर्श्यते, यथा--

 न निगममयबिम्बत्वान्न भास्वरत्वान्न लोकबन्धुत्वात् । सन्ध्यासु वन्द्यतेऽर्कः किंतु वृषाद्रीश हृदयमणिदास्यात् ॥ ३३५ ॥

 वृषाद्रीशहृदयमणिः कौस्तुभः, तस्मिन् दास्यात् तदनुवर्तितेजस्त्वादिति यावत् । अत्रार्कस्य वन्द्यत्वे ‘उद्यन्तमस्तंयन्तमादित्यमभिध्यायन्’ इत्यादिप्रमाणावबोधितप्रभावहेतुकत्वं निगीर्य तत्र हेत्वन्तरमध्यवसितम् ॥

 यथा वा--

 नायं सुशीतलत्वान्न कोमलत्वान्न वा सचपल-