पृष्ठम्:अलङ्कारमणिहारः.pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
193
अपह्नुतिसरः (१३)

त्वात् । अभिनन्द्यो लोकानामभिनवजलदो । हरे तवौपम्यात् ॥ ३३६ ॥

 अत्राभिनन्द्यत्वस्य जीवनदानादिहेतुकत्वं निगीर्य तत्र हेत्वन्तरमध्यवसितम् ॥

 यथा वा--

 हृदये कौस्तुभरत्नं न भूषणार्थं स्वभूरयं धत्ते । बहुमानयितुं कमलासहजन्मेत्यहिधुरंधराद्रीशः ॥ ३३७ ॥

 अत्र कौस्तुभरत्नहृदयधारणस्य--

आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान् हरिः ॥

इत्युक्तं जीवतत्त्वाभिमानित्वप्रयुक्तसत्करणत्वं फलं निगीर्य फलान्तराध्यवसायः कृतः ॥

 सावयवारोपाऽपीयं दृश्यत इति रसगङ्गाधरकृत् ॥

 यथा--

 हृदयह्रदान् बुधानां प्रसादयन्ती रमास्यराकेन्दुम् । सुस्मेरं विदधाना शरदेषा न तु हरेरपाङ्गरुचिः ॥ ३३८ ॥

आरोपमात्रोपायत्वे परंपरिताऽप्येषा संभवतीति स एवाह ॥

 यथा--

 तदिदं तव नवपल्लवमदविदळनकृत्पदं वदन्त्व-

 ALANKARA
25