स्योद्विजते वाचा नालोक्यां तामुदीरयेत्’ इति निषेधादिति भावः ॥
एवम्--
स्वात्येवैषा जननि त्वन्मुखचन्द्रेण गाढमुपगूढा । अधररूचिरोहिणीयं नासामुक्तेति मुग्धजनवादः ॥ ३३१ ॥
इत्यत्राप्यारोपपूर्वकत्वादिकं द्रष्टव्यम् । स्वातीनक्षत्रस्य पद्मरागवर्णतया तदारोपः । रोहिणी रोहिता । ‘वर्णादनुदात्तातोपधात्तो नः’ इति ङीप्, तत्सन्नियोगशिष्टं नत्वं, ततो णत्वम् ॥
आरोपगर्भत्वाच्चेयं सादृश्याद्वा भवति संबन्धान्तराद्वेति विमर्शिनीकारः । सादृश्येऽप्यस्यास्साधारणधर्मा उपमायामिव द्रष्टव्याः । तत्रानुगामी धर्मः ‘नियतं न कलङ्कोऽयं शशाङ्कबिम्बे यदेतदानीलम्’ इत्यादौ प्रागुदाहृतपद्ये निर्दिष्टः ॥
शुद्धसामान्यरूपं यथा--
अधिवृषगिरिनाथाङ्गं यदिह पिशङ्गं न हेमवसनं तत् । मुनिजनमानससरसिजनिवसनलग्नं सुपिङ्गळं हि रजः ॥ ३३२ ॥
अत्र पिशङ्गपिङ्गळत्वयोश्शुद्धसामान्यरूपत्वम् । अयमेव वस्तुप्रतिवस्तुभावः ॥
वस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभावेनानुगामितयाच्च यथा--
तपनीयविमानान्तर्न परमपुरुषोऽयमहिगिरे-