पृष्ठम्:अलङ्कारमणिहारः.pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
185
अपह्नुतिसरः (१३)

अन्यारोपफलो यस्स्यात्प्रकृते धर्मनिह्नवः ।
अलंकृतिरियं शुद्धापह्नुतिर्नाम गद्यते ॥ ४९ ॥

 प्रकृते वर्ण्ये वस्तुनि अप्रकृतधर्मारोपफलकस्तदीयधर्मनिह्नवश्शुद्धापह्नुतिरलंकारः । तथाच उपमेये उपमानारोपफलक उपमेयधर्मत्वेनाभिमतस्य निषेधश्शुद्धापह्नुतिरिति पर्यवस्यति लक्षणम् । अत्र चानुक्तनिमित्तत्वेन कैतवच्छलादिपदाव्यङ्ग्यत्वेन च निषेधो विशेषणीयः । तेन हेत्वपह्नुतिकैतवापह्नुत्योर्नातिप्रसंगः । 'कान्तः किं न हि नूपुरः' इति छेकापह्नुतौ उपमेयधर्मस्य कान्तत्वस्य निषेधसद्भावादतिप्रसङ्गस्स्यादिति तद्वारणाय प्राथमिकविशेषणम् । तत्र हि न कान्तत्वनिषेधो नूपुरारोपफलकः अपि तु नूपुरारोप एव शङ्कितकान्तत्वनिषेधफलक इति तद्व्यावृत्तिः । पर्यस्तापह्नुतिवारणायोपमेयधर्मेत्युक्तम् । तत्रोपमानधर्मस्यैव सुधांशुत्वादेर्निषेध इति नातिव्याप्तिरिति । अत्र च निह्नवारोपयोर्न पौर्वापर्यनियमः, लक्षणे धर्मनिह्नवस्यान्यारोपफलकत्वमात्रोक्तेः । न ह्यत्र-–'निह्नुत्य विषये धर्ममन्यदारोप्यते यदि' इत्यस्माभिर्निबद्धं लक्षणं, येन क्त्वाप्रत्ययोवलम्बनं निह्नवस्य पौर्वकालिकत्वमेवेति नियम्येत, तेन वक्ष्यमाणे आरोपपूर्वकापह्नवे नाव्याप्तिः ॥

 दण्डी तु--'अपह्नुतिरपह्नुत्य किंचिदन्यार्थरोपणम्’ इत्यारोपस्य सादृश्यमूलकत्वं प्रकृते वस्तुनि धर्मनिह्नवं चानादृत्य यत्किंचिन्निह्नवपूर्वकयत्किंचिद्धर्मारोपमात्रमपह्नवं लक्षयति स्म । तन्मते वक्ष्यमाणानि पद्यान्यप्यपह्नुतेरुदाहरणान्येव । अत्रापह्नुत्येति क्त्वाप्रत्ययार्थो निषेधस्य पूर्वकालता न विवक्षिता । तेन

वक्ष्यमाणोदाहरणानि संगंस्यन्ते ॥

 ALANKARA
24