पृष्ठम्:अलङ्कारमणिहारः.pdf/१९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
184
अलंकारमणिहारे

ह्नुतेरुदाहरणमिति रहस्यम् । अत एव ‘नेन्दुस्तीव्रो न निश्यर्कस्सिन्धोरौर्वोऽयमुत्थितः' इत्यस्य हेत्वपह्नुतेरुदाहरणत्वं च संगच्छते । अन्यथाऽस्यापि विरहिजनवचनताभिसंधौ अलक्ष्यतापातात्प्राक्तनैः कृतस्य तदुदाहरणस्यासंगतिः स्पष्टैव ॥

 न चैवमपि सामान्यलक्षणेऽस्मिन्नाहार्यविशेषणोपादानं न युज्यते, भ्रान्तापह्नुतावव्याप्तिप्रसंगात् । तत्र हि ‘तापं करोति सोत्कम्पं ज्वरः किं न सखि स्मरः' इत्यादौ तात्विकस्मराभेदप्रतीतेराहार्यत्वविरहादिति वाच्यं, आहार्यत्वस्यानाहार्यत्वभ्रमत्वोभयाभावपर्यवसितस्यैव निवेशनीयतया सकलदोषनिवारणात् । भ्रान्तापह्नुतौ ह्यभेदप्रतिपत्तेरनाहार्यत्वेऽपि भ्रमत्वाभावेनैव एकसत्त्वे द्वयं नास्तीति न्यायेन उभयाभावविशेषणमहिम्ना लक्षणसंगतिः । इतरेष्वपह्नुतिप्रभेदेषु तु अभेदप्रतिपत्तेर्भ्रमत्वेऽप्यनाहार्यत्वविरहेणैवोभयाभावस्सूपपाद इति तत्रापि स्यादेव लक्षणसंगतिः । उपदर्शिते विरहिजनवाक्ये तु मार्तण्डाभेदप्रतीतेरनाहार्यतया दोषविशेषजन्यभ्रमरूपतया च तदुभयस्यैव सद्भावेन तदुभयाभावो दुर्घट इति नोक्तातिप्रसङ्गशङ्कावकाशः । तथाच--अनाहार्यत्वभ्रमत्वोभयाभाववती या अभेदप्रतीतिः तद्विशिष्टप्रतीतिविषयत्वे सति प्रतिषेधत्वमपह्नवालंकारसामान्यलक्षणम् । प्रतीतौ तादृशप्रतीतिवैशिष्ट्यं च स्वनिष्ठाङ्गतानिरूपिताङ्गितावत्त्वस्वनिष्ठाङ्गितानिरूपिताङ्गतावत्त्वान्यतरसंबन्धेनेति ध्येयम् । चारुत्वविशेषणं त्वधिकारलब्धमेवेति न विशिष्यात्रोपादातव्यमित्यलं बहुना ॥

 इत्थमपह्नुतेस्सामान्यलक्षणमभिहितम् । अथ तद्भेदान् लिलक्षयिषुस्तत्रादौ शुद्धापह्नुतिं लक्षयति-