पृष्ठम्:अलङ्कारमणिहारः.pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
183
अपह्नुतिसरः (१३)

थाविधस्याभेदेन समारोप इति शक्यं प्रतिपत्तुं, तथाकल्पनायामिह कवेरसंरम्भात् । तस्मादसंख्यशिलीमुखशब्देनापि काम एव विवक्षित इति विषयभूते कामे पञ्चविशिखत्वं प्रसिद्धं प्रतिषिध्यासंख्यशिलीमुखत्वं धर्म एव भेदेन समारोप्यत इत्यभ्युपेत्यम् । तथाचेह विवक्षितायाः भेदसंसर्गकप्रतीतेरेवाङ्गं प्रतिषेधो नाभेदप्रतीतेरित्यतिप्रसङ्गवारणम् । 'नायं सुधांशुः' इत्यादौ तु सर्वत्रापह्नवोदाहरणे व्योमगङ्गासरोरुहादेर्धर्मिण एव तत्तद्धर्मविशिष्टतयाऽन्यत्र प्रसिद्धस्य कविकल्पितस्य वा विषये अभेदेन प्रतीतिर्विवक्षितेति लक्षणसंगतिः । ‘अपह्नुतिरपह्नुत्य किंचिदन्यार्थरोपणम्’ इति प्रतिपत्तेरभेदविषयकत्वमनादृत्य केवलापह्नुतिपूर्वकान्यार्थारोपस्यैवापह्नुतित्वं लक्षयतो दण्डिनो मते तूदाहृते 'न पञ्चविशिखः' इत्यत्रापि नैवातिप्रसंगः ॥

संग्रामाङ्गणसंमुखागतकियद्विश्वंभराधीश्वर-
व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा ।
अङ्गारप्रखरैः करैः कबळयन् सद्यो जगन्मण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥

इत्यादौ विरहिजनवाक्ये नायं शशाङ्कः अपितु सच्छिद्रमार्तण्ड इति प्रतीयमानेऽर्थे शशाङ्कनिषेधो मार्तण्डाभेदप्रतिपत्तेरेवाङ्गमिति तत्रातिव्याप्तिवारणायाभेदप्रतिपत्तेराहार्येति विशेषणं, अत्र च मार्तण्डारोपस्य दोषविशेषजन्यतयाऽनाहार्यत्वात् । अत एव ‘अत्र छायामात्रमपह्नुतेः न त्वपह्नुत्यलंकारः तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यत्वात्, किंतु 'भ्रान्त्यलंकारएव' इति रसगङ्गाधरकृदुक्तिस्संगच्छते । अस्य च विरहिजनवचनताविरहेण केवलकविमतिविकासजन्यत्वे तु भवत्येवेदमपि शुद्धाप-