पृष्ठम्:अलङ्कारमणिहारः.pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12
अलंकारमणिहारे

 अत्रोपमाया व्यङ्ग्यायाः प्राधान्येनालङ्कार्यता, न त्वलङ्कारता । अत उद्भूतेत्यस्याव्यङ्ग्यत्वपर्यवसानादस्य न व्यङ्ग्योपमायामतिव्याप्तिः। निषेधाप्रतियोगित्वविवक्षणात् व्यतिरेकव्युदासः । ततश्च सहृदयहृदयाह्लाददायित्वे सत्यव्यङ्ग्यं सादृश्यमुपमेत्येतावदेव लक्षणमिह विवक्षितम्, न तूपमानोपमेयत्वयोग्ययोरित्यपि, ‘ग्रथ्नामि काव्यशशिनम्’ इत्यादौ चारुत्वाभावादेवातिव्याप्त्यसंभवात् । अतएव उभयोस्साम्यश्रीरित्येवोक्तं, तदप्यनन्वयेऽतिव्याप्तिनिरासाय ।


 न चैवमप्युपमेयोपमाप्रतीपयोरतिव्याप्तिः। तयोरुक्तसादृश्यवर्णनसत्त्वेनोपमालङ्कारान्तर्भावस्येष्टत्वात्, तृतीयसदृशव्यवच्छेदस्य प्रसिद्धोपमानप्रातिलोम्येन प्रसिद्धोपमेयोत्कर्षस्याधिकस्य तत्र फलस्य सद्भावेन तत एव तयोरुपमायाः पृथगुक्तेः, उपमेयोपमायां प्रकृताप्रकृतगोचरोपमाद्वयरूपतया प्रतीपे अप्रकृतविषयतया च तस्याः प्रतीतेः । अन्यथा अप्रकृतविषयस्मृत्यादेरपि प्रकृतवषयस्मरणादितोऽलङ्कारान्तरत्वापत्तेश्च । अतएव 'प्रतीपमुपमेयोपमा चेत्युभयमपि सङ्ग्राह्यमेवेति न तद्व्यापनं लक्षणस्य दोषः' इति चित्रमीमांसायामुपमालक्षणपरिष्करणावसरे कण्ठरवेणैव प्रतिपादितम् ।


 केचित्तु--सादृश्यप्रतीतिमात्रोद्देश्यककविसंरम्भविषयीभूतचारुसादृश्यमुपमेति विवक्षितम् । तेन अनन्वयोपमेयोपमाप्रतीपेषु न क्वाप्यतिव्याप्तिः, तत्र सादृश्यस्यानुपमत्वद्योतनतृतीयसदृशव्यवच्छेदोपमेयोत्कर्षफलकत्वेन कविसंरम्भगोचरतया सादृश्यबोधमात्रोद्देश्यककविसंरम्भविषयत्वविरहादित्याहुः ॥