पृष्ठम्:अलङ्कारमणिहारः.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
13
उपमालंकारसरः (१)

 इदं कुवलयानन्दकृदनुरोधेन । रसगङ्गाधरकृदनुरोधेन त्वेवं लक्षणम्--

वाक्यार्थोपस्कारकं यत्सादृश्यं चारु सोपमा ॥ २ ॥

 सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालङ्कृतिः । चारुत्वं च चमत्काराधायकत्वं, चमत्कारश्चानन्दविशेषस्सहृदयहृदयसाक्षिकः। ‘सागरस्सागरोपमः' इत्याद्यनन्वये सादृश्यस्य द्वितीयसतीर्थ्यनिवर्तनमात्रार्थमुपात्ततया स्वयमप्रतिष्ठानादचमत्कारित्वमेव । अतएव तस्यान्वयाभावादनन्वयं तमभिदधते । ‘नाथत्वद्वदनौपम्यं कथं धत्तां सुधाकरः' इत्यादिव्यतिरेके चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनस्सादृश्यस्य निरूपणमचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापह्नुतिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तूपमादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकत्वेनावस्थितस्यापि सादृश्यस्य चमत्कारितावैधुर्येण नास्त्युपमालङ्कारत्वम् । 'मुखमिव चन्द्रः' इति प्रतीपे, ‘चन्द्र इव मुखं मुखमिव चन्द्रः' इत्युपमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसङ्गश्शङ्क्यः, तयोस्सङ्ग्राह्यत्वात् ॥


 ननु--‘त्वयि कोपो ममाभाति सुधांशाविव पावकः' इत्यादावुपमानस्यातिमात्रमसम्भाविततया न तावत्सादृश्यमेव शक्यं प्रतिपत्तुं, चमत्कारः पुनर्दवीयानेवेति चेत्-कविना हि खण्डशः पदार्थोपस्थितिमता यथेप्सितं संभावितत्वेनाकारेण सुधाकराधिकरणकं पावकं परिकल्प्य तेन सह साम्यस्यापि कल्पने बाधकाभावात् । न च कल्पितमसत्सादृश्यं कथंकारं चमत्कार-