अधिभुजगराजशैलं यं घननीलं विलोलवनमालम् । निरवर्णयमतिवेलं तमेव देवं स्मरामि शुभलीलम् ॥ २७६ ॥
अत्र स्मृतिः चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकारपदवीमवगाहते । व्यङ्ग्यत्वविरहाच्च न भावपदवीम् ॥
एवं--
कलिरिपुगुरुवरकरुणासुरतटिनीधूतमोहमालिन्यः । शेषाद्रिपतेर्नित्यं शेषित्वं शेषतां च मेऽस्मार्षम् ॥ २७७ ॥
कलिरिपुगुरुवराः श्रीमत्परकालयतीन्द्रमहादेशिकाः । शेषित्वं स्वामित्वं शेषतां परगतातिशयाधानेच्छया उपादेयत्वस्वरूपतां च अस्मार्षम् ॥
स्वोज्जीवनेच्छा यदि ते स्वसत्तायां यदि स्पृहा ।
आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर ॥
इत्युक्तरीत्या स्मृतवानित्यर्थः । इहापि स्मृतिर्नालंकारो नापि भावः । व्यङ्ग्यस्यैव व्यभिचारिणो भावत्वात् ॥
यथा--
गम्भीरिमा शिशिरिमा गरिमा परमाद्भुतो मधुरिमा च । तत्तादृगहिवरगिरेरुत्तंसादन्यतः क्व वा दृष्टः ॥ २७८ ॥
अयं ह्यालंकारिकाणां संप्रदायः--यत्सादृश्यमूलकत्वे स्मृतिर्निदर्शनादिवदलंकारः, तद्विरहे व्यङ्ग्यतायां भावः । तयो-