पृष्ठम्:अलङ्कारमणिहारः.pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
160
अलंकारमणिहारे

कौस्तुभश्च कमला च कौस्तुभकमले मौक्तिकसरशुचिरुचिनिमग्ने सत्यौ दुग्धाब्धिनिवसतिं स्मरत इति योजना ॥

 यथा वा--

 अभयं दातुं सरभसमिभवरशिरसि स्वहस्तमाधातुः । चेतः फणिगिरिनेतुर्यातं कमलाकुचद्वयं स्फीतम् ॥ २७४ ॥

 अत्राद्ये स्मृतिर्वाच्या, द्वितीये तु लक्ष्येति विशेषः ॥

 यथा वा--

 लक्ष्मीकटाक्षलहरीं वीक्ष्य शरत्फुल्लमल्लिका रात्रीः । तास्स्मरति फणिगिरीन्दू रासविलासं च तासु गोपीनाम् ॥ २७५ ॥

 शरत्फुल्लमल्लिकाः ताः रात्रीरित्येतैः पदैः ‘भगवानपि ता रात्रीश्शरदोत्फुल्लमल्लिकाः' इति श्रीभागवतीयपद्यं प्रत्यभिज्ञाप्यते । अत्र शरद्रात्रिरासविलासयोस्स्मरणं यद्यपि न तत्सादृश्यदर्शनोद्बुद्धसंस्कारप्रयोज्यं, तथाऽपि लक्ष्मीकटाक्षगतलहरीसादृश्योद्बुद्धयमुनाविषयकसंस्कारजन्यतत्स्मरणाधीनत्वाद्भवत्येव यत्किंचित्सादृश्यदर्शनोद्बुद्धसंस्कारप्रयोज्यम् । न हि सादृश्ये स्मर्यमाणसंबन्धित्वं विवक्षितम् । एवं वाच्ययोश्शरद्रात्रिरासविलासस्मरणयोः एतत्कारणतयाऽऽक्षिप्तस्य यमुनास्मरणस्य चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम् । केचित्तु सदृशज्ञानोद्बुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकार इत्याहुः, तेषां शरद्रात्रिरासादिस्मृतिरनलंकार एव ॥