पृष्ठम्:अलङ्कारमणिहारः.pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
162
अलंकारमणिहारे

रभावे तु वस्तुमात्रमिति । यस्तु ‘सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम्' इति स्मरणालंकारलक्षणं तन्न चतुरश्रम्, सदृशस्मरणादुद्बुद्धेन संस्कारेण जनिते स्मरणे अव्याप्तेः ॥

 यथा--

 भ्रमर चिरं जीव त्वं स्मारयता त्वदवलम्बमम्बुरुहम् । येन त्वया तदुपमे विलोचने स्मारिते वृषगिरीन्दोः ॥ २७९ ॥

 अत्र भ्रमरदर्शनादेकसंबन्धिज्ञानाजनितेनापरसंबन्धिनोऽम्बुरुहस्य भगवन्नयनसदृशस्य स्मरणेन जनितं भगवन्नयनस्मरणं भगवद्विषयकरतिभावाङ्गतयाऽलंकारः । यदि तु सदृशानुभवादित्येतदपहाय सदृशज्ञानादिति लक्षणे निवेश्येत तदा भवत्यस्यापि संग्रह इति दिक् ॥

 अत्रेदमवधेयम्-सादृश्यप्रयोजकस्य साधारणधर्मस्य साक्षादुपादानानुपादानयोरुपमायामिवात्रापि व्यवस्था । तथाहि--उपमायां तावत्क्वचिद्धर्मो नियमेन प्रतीयमानस्साक्षान्नोपादेय एव । यथा--'शंखवत्पाण्डुरच्छविः' इत्यत्र पाण्डुरत्वम् । ‘शङ्खवत्पाण्डुरोऽयम्’ इत्यादौ तु नानाविधेषु धर्मेष्वेकेनैव धर्मेण सादृश्यमित्यस्य दुर्विज्ञानत्वात् सर्वत्रोपमानोपमेयसाधारणस्य श्लिष्टशब्दात्मकस्यान्यस्य वा स्वविवक्षितस्य साधारणधर्मस्योपमाप्रयोजकत्वसंभवात्तद्वारणाय पाण्डुरत्वादिर्धर्मो वाच्यतां नीयते । यथा वा--'अरविन्दमिव सुन्दरं मुखं' इत्यादौ सुन्दरत्वादिः । न नीयते च धर्मः क्वचिद्वाच्यतां वक्तुरन्यधर्मानुपस्थितेः प्रसिद्धः प्राबल्यात् । यथा—-'अरविन्दमिव मुखम्' इत्यादौ सु-