पृष्ठम्:अलङ्कारमणिहारः.pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
156
अलंकारमणिहारे

 संकीर्णो यथा--

 मृगमदतिलकति निटिले मृगपतिगिरिनेतुरुरसि लाञ्छनति। भ्रमरति नाभीकमले कमलायाः प्रसृमरा कटाक्षरुचिः ॥ २६५ ॥

 अत्रोपमया सङ्कीर्णः । यद्वा-- तत्तदधिकरणौचित्यात्कस्तूरीतिलकादितादात्म्यसम्भावनायामुपमार्थे विहितोऽपि क्विबुत्प्रेक्षायां पर्यवस्यतीत्युपमोपक्रमोत्प्रेक्षा । एतद्विमर्शस्तूत्प्रेक्षानिरूपणावसरे भविष्यति । अस्मिन् पक्षे उत्प्रेक्षया संकीर्णोऽयमाश्रयानेकत्वप्रयुक्त उल्लेखः ॥

 यथा वा--

 मौक्तिकसि दन्तपङ्क्तौ नीलसि वालेषु विद्रुमस्यधरे । हीरसि नखेषु कमले सत्यं रत्नाकरात्मजात्वमिति ॥ २६६ ॥

 अत्रोपमासङ्कीर्णः काव्यलिङ्गशिरस्कः ॥

 यथा वा--

 ऊरुयुगे रम्भाऽसि श्रीर्नासायां तिलोत्तमाभिख्या । वैभवतो विश्वाची त्वमप्सरोज्यायसीति युक्तमिदम् ॥ २६७ ॥

 हे श्रीः उरुयुगे रम्भा कदळी तन्नामकाप्सराश्च। नासायां