पृष्ठम्:अलङ्कारमणिहारः.pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
155
उल्लेखसरः ‍‌‍‌‍‌(९)

ग्रहीतृभेदे विषयाश्रयसंबन्धिनामन्यतमानेकत्वप्रयुक्तस्य वस्तुनोऽनेकप्रकारत्वमयमन्य उल्लेखः । तत्र विषयसप्तमीनिर्दिष्टो विषय इत्युच्यते । अधिकरणसप्तमीनिर्दिष्टस्त्वाश्रयः । षष्ठ्या निर्दिष्टस्संबन्धीति विवेकः । अयमपि शुद्धसङ्कीर्णभेदेन द्विविधः ॥

 तत्र शुद्धो यथा--

 स्निग्धाः कौस्तुभरत्ने दिग्धाः कृपयाऽत्र मयि हरौ मुग्धाः । दुग्धाम्बुराशिदुहितुस्स्रग्धारा इव जयन्ति दृग्धाराः ॥ २६३ ॥

 कौस्तुभरत्ने स्निग्धाः स्नेहयुक्ताः सहोदरत्वात् । अत्र अस्मिन् मयि कृपया दिग्धाः दीनतमत्वात् । हरौ भगवति मुग्धाः व्यामोहशालिन्यः । वल्लभत्वादिति भावः । इह दृग्धाराणां विषयानेकत्वप्रयुक्त उल्लेखः ॥

 हसिते सितमसितं रुच्येतं पुरुषं तथाम्बरे पीतम् । शोणमधरे पुराणं करचरणतलेऽरुणं श्रये शरणम् ॥ २६४ ॥

 रुचीति सप्तम्यन्तम् । अत्रैकस्यैव भगवतः हसितादिषु विषयेष्वनेकेषु सितादिवर्णानेकत्वमेकेनैव ग्रहीत्रोल्लिखितमित्याश्रयानेकत्वप्रयुक्तोऽयमुल्लेखः । एतं पुराणं पुरुषमिति योजना । एतं उक्तरीत्या नानावर्णत्वाच्छबलमित्यपि गम्यते । ‘चित्रकिम्मीरकल्माषशबलैताश्च कर्बुरे’ इत्यमरः ॥

 संबन्ध्यनेकत्वप्रयुक्तस्त्वनन्तरमेवोदाहरिष्यते ।