पृष्ठम्:अलङ्कारमणिहारः.pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
157
उल्लेखसरः ‍‌‍‌‍‌(९)

तिलोत्तमस्य तिलकुसुमश्रेष्ठस्य अभिख्या शोभेव शोभा यस्यास्सा, तिलोत्तमेत्यभिख्या नाम यस्यास्सा, तथोक्ता तन्नामाप्सरा इति च । ‘अभिख्या नामशोभयोः' इत्यमरः । वैभवतः वैभवे सार्वविभक्तिकस्तसिः । विश्वमञ्चतीति विश्वाची सर्वजगद्व्यापिनी, तन्नामाप्सराश्च । तस्मात् त्वं अप्सरसां ज्यायसि श्रेष्ठा ततोऽप्यतिसुन्दरीत्यर्थः । पक्षे—-अप्सरसो ज्यायस्यो ज्येष्ठाः यस्यास्सेति बहुव्रीहिः । ‘नद्यृतश्च' इति प्राप्तस्य कपः ‘ईयसश्च' इति निषेधः । ‘ईयसो बहुव्रीहेर्नेति वाच्यम्' इति निषेधात् न ‘गोस्त्रियोरुपसर्जनस्य’ इति ह्रस्वः । विष्णुपुराणादावप्सरसां श्रीलक्ष्म्यपेक्षया प्रागेवाविर्भावोऽभाणि । पुराणान्तरेषु यदि श्रियोऽनन्तरमेव तासामुत्पत्तिरुपलभ्येत तदा षष्ठीतत्पुरुषोऽप्यस्तु । इतीदं युक्तमित्यन्वयः । अत्र श्लेषरूपकसंकीर्णः । काव्यलिङ्गसंकीर्णसमालंकारशिरस्कः ॥

 संबन्ध्यनेकत्वप्रयुक्तो यथा--

 भक्तानां मन्दारा भवतप्तानाममूस्सुधाधाराः । नारायणगिरिनेतुर्दाराणां सन्तु मयि दृगासाराः ॥

 अत्र कविना मन्दारत्वादिना रूपेण कटाक्षाणां रूपवतां करणाद्रूपकेण भक्तादीनामेतेषु कटाक्षेष्वभीप्सितार्थदानादिना मन्दारत्वादिभ्रान्तिरपि संभवतीति भ्रान्तिमता, भक्तादिभिरनेकैर्ग्रहीतृभिर्मन्दारत्वाद्यनेकधर्मेणोल्लेखनात्प्रागुक्तोल्लेखप्रकारेण च सह संकीर्णोऽयं संबन्धिषष्ठ्यन्तपदभेदप्रयुक्तवर्ण्यानेकत्वप्रकार उल्लेखः ॥

 केचित्तु सहचरानेकत्वप्रयुक्तमनेकविधत्वमप्युल्लेखमाहुः । तदेदमुदाहरणम्--