पृष्ठम्:अलङ्कारमणिहारः.pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
153
उल्लेखसरः ‍‌‍‌‍‌(९)

कग्रहणसमुदायो भगवद्विषयरतिभावोपस्कारकः शुद्ध एवात्रायमुल्लेखालंकारः, रूपकादिभिरमिश्रितत्वात् ॥

 संकीर्णो यथा--

 तावकपदनखरेखां मत्वेन्दुकलां नमन्मृडो मकुटम्। स्पृशति निजमहिगिरीश्वर वज्रं मत्वेक्षते स्वकरमिन्द्रः ॥ २५७ ॥

 अत्र मृडाद्येकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखस्संकीर्णः ॥

 वृषगिरिपतिं तमालं कतिचित्कतिचिद्वदन्तु हरिनीलम् । ब्रूमो वयमतिवेलं पुञ्जितलक्ष्मीकटाक्षरुचिजालम् ॥ २५८ ॥

 अत्र भगवतस्तमालत्वादेः परमतत्वेन निषेध्यतयोपन्यासादपह्नुत्या संकीर्ण उल्लेखः ॥

 सन्देहसङ्कीर्णो यथा--

 तपनो वा ज्वलनो वेत्यरिललना वेत्ति तव करे चक्रम् । स्वीयं लक्ष्मीस्तु हरे केयूरं वाऽथ नूपुरं वेति ॥ २५९ ॥

 अत्र द्वयोर्ग्रहणयोः प्रत्येकं संदेहत्वं समुदायस्य तूल्लेखता ॥

 अवरोधसद्म पद्मा मनुते भूमिर्निवासभूमिं त्वाम् । नीला लीलाशालां नीलाचलमौलिलोलनीलमणे ॥ २६० ॥

 ALANKARA
20