पृष्ठम्:अलङ्कारमणिहारः.pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
152
अलंकारमणिहारे

अनेकैर्ग्रहीतृभिरनेकप्रकारकं ग्रहणमित्यनेन द्वाभ्यां द्विऽधाग्रहणेऽप्ययमलंकारोऽक्षत एव । अयं च द्विविधः । शुद्धोलंकारान्तरसंकीर्णश्चेति । तत्र शुद्धो यथा--

 आर्तो लक्ष्मीपतिरित्यर्थार्थी त्वां महावदान्य इति । जिज्ञासुर्ज्ञानमिति ज्ञानी तु शरण्य इति भजति भगवन् ॥ २५६ ॥

 अत्र--

चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन ।
आर्तोजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥

इतिश्लोकार्थोऽनुसंहितः । सुकृतिनः पुण्यकर्माणः मां शरणमुपगम्य मामेव भजन्ते । ते च सुकृततारतम्येन चतुर्विधाः । सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तराधिकतमा भवन्ति । आर्तः प्रतिष्ठाहीनो भ्रष्टैश्वर्यः पुनस्तत्प्राप्तिकामः लक्ष्मीपतिरिति भजति ऐश्वर्यदानसामर्थ्याभिप्रायकं लक्ष्मीपतिपदम् । एवमग्रेऽप्यूह्यम् । अर्थार्थी अप्राप्तैश्वर्यतया अपूर्वैश्वर्यकामः । तयोर्मुखभेदमात्रम् । ऐश्वर्यविषयतथैक्यादेक एवाधिकारः । महावदान्य इति भजति । जिज्ञासुः प्रकृतिवियुक्तब्रह्मात्मकात्मस्वरूपावाप्तीच्छुः ज्ञानमेवास्य स्वरूपमिति जिज्ञासुरित्युक्तम् । ज्ञानमिति भजति । ज्ञानस्वरूपजीवशरीरक इति भजति । ज्ञानी तु भगवच्छेषतैकरसात्मस्वरूपवित् प्रकृतिवियुक्तकेवलात्मन्यपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तमेव परमप्राप्यं मन्वानः शरण्य इति परमप्राप्य इति भजतीत्यर्थः । अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामार्ताद्यनेकग्रहीतृकलक्ष्मीपतित्वाद्यनेकप्रकार-